"वैश्विकस्थितिसूचकपद्धतिः" इत्यस्य संस्करणे भेदः

(edited with ProveIt)
(edited with ProveIt)
पङ्क्तिः १०:
==वैश्विकस्थितिसूचकस्य मूलसिद्धान्ताः==
[[चित्रम्:Good gdop.png|150px|right|thumb| उपग्रहाणां द्वारा सङ्केतसङ्ग्रहणम्]]
वैश्विकस्थितिसूचकव्यवस्थायाः प्रतिग्राहियन्त्राणि उपग्रहैः प्रसार्यमाणाः सङ्केतान् गृह्णन्ति । एताः सङ्केताः उपग्रहात् प्रतिग्राहियन्त्राणि प्राप्तुं कियान् कालः स्वीकृतः इत्येतस्याः गणनायाः आधारेण स्वीयं स्थानम् ऊहन्ते । सङ्केताः विद्युन्मानतरङ्गरूपेण विद्यन्ते । एतेषां तरङ्गाणां वेगः पूर्वज्ञातः विद्यते इत्यतः गणना भवति निर्दुष्टा । त्रिषु आयामेषु स्वस्य स्थानं निर्णेतुं त्रिभिः उपग्रहैः प्रसारितान् सङ्केतान् अपि च तस्य निर्णयस्य निर्दुष्टतायै अपेक्षितायाः समकालीनतायाः (Time Synchronisation) प्राप्त्यै च चतुर्थोपग्रहस्य सङ्केतान् उपयुङ्क्ते । त्रिभिः उपग्रहैः प्राप्तान् सङ्केतान् उपयुज्य क्रियमाणः स्थाननिर्णयः '''त्रिकोणीकरणम्''' (Triangulation)<ref>{{cite web | url=http://searchnetworking.techtarget.com/definition/triangulation | title=त्रिकोणीकरणम् | accessdate=3 अप्रैल 2014}}</ref> इति कुत्रचित् उल्लिख्यते चेदपि तस्य निर्देशाय '''<ref>{{cite web | url={{dmoz|Science/Earth_Sciences/Geology/Volcanoes|Volcanoes}} | title=त्रिपार्श्वीकरणम् | accessdate=3 अप्रैल 2014}}</ref>''' (Trilateration) इत्येषः शब्दः एव समीचीनः इति तत्तज्ञानाम् अभिप्रायः ।
==वैश्विकस्थितिसूचकव्यवस्था==
इयं वैश्विकस्थितिसूचकव्यवस्था त्रिसृभिः उपव्यवस्थाभिः युक्ता वर्तते -
पङ्क्तिः १६:
# नियन्त्रणोपव्यवस्था
# ग्राहकोपव्यवस्था चेति ।
अन्तरिक्ष-नियन्त्रणोपव्यवस्थयोः निर्माणं निर्वहणं कार्याचरणं च अमेरिकादेशस्य वायुसेनाविभागेन क्रियते । वैश्विकस्थितिसूचकव्यवस्थान्तर्गताः उपग्रहाः आकाशात् सङ्केतान् प्रेषयन्ति । वैश्विकस्थितिसूचकव्यवस्थायाः<ref>{{cite web | url=http://www.gps.gov/systems/gps/index.html | title=वैश्विकस्थितिसूचकव्यवस्था | publisher=Gps.gov | accessdate=3 अप्रैल 2014}}</ref>याः प्रतिग्राहियन्त्राणि एतेषां सङ्केतानां द्वारा स्वीयम् आयामत्रयोपेतं स्थानम् (अक्षांशः, रेखांशः, औन्नत्यम्) स्पष्टं समयञ्च निश्हिन्वन्ति ।
===अन्तरिक्षोपव्यवस्था===
विश्विकस्थितिसूचकव्यवस्थायाः निर्वाहाय २४ तः ३२ उपग्रहाः कार्यनिरताः भवन्ति । प्रत्येकम् उपग्रहः स्वीयं दिक्सूचिसन्देशं द्विविधसङ्केतानां द्वारा प्रेषयन्ति – स्थूलांशप्राप्तिसङ्केतः(Coarse Acquisition Code – C/A Code) यथार्थसङ्केतः(Precision Code – P Code) च । स्थूलांशप्राप्तिसङ्केतः ग्राहकेभ्यः निश्शुल्कम् उपलभ्यते । यथार्थसङ्केतः गुप्तरूपेण उपलभ्यते यश्च अमेरिकासेनाविभागेनैव उपयुज्यते ।
२०१२ तमस्य वर्षस्य डिसेम्बर्-मासतः ३२ उपग्रहाः अस्यां व्यवस्थायां कार्यरताः सन्ति ।<ref>{{cite web | url=http://tycho.usno.navy.mil/gpscurr.html | title=इदानीन्तनी उपग्रहव्यवस्था | publisher=U.S. Naval Observatory | accessdate=3 अप्रैल 2014}}</ref> अतिरिक्तोपग्रहाः व्यवस्थायाः विश्वासार्हतां प्राप्तिञ्च अवर्धयन् । भूमौ निश्चितबिन्धुतः नव उपग्रहाः दृश्यन्ते इत्यतः यथार्थसूचनाः प्राप्तुं शक्याः ।
===नियन्त्रणोपव्यवस्था===
नियन्त्रणोपव्यवस्था चतुर्भिः भागैः युक्ता -
"https://sa.wikipedia.org/wiki/वैश्विकस्थितिसूचकपद्धतिः" इत्यस्माद् प्रतिप्राप्तम्