"रतन टाटा" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १९:
=='''बाम्बे हौस् निर्माणम्'''==
 
मुम्बयीनगरे टाटासंस्थायाः बाम्बेहौस् नामकस्य प्रमुखकार्यालयस्य विन्यासचित्रं [[ब्रिटेन|ब्रिटिष्]] वास्तुशिल्पिना जार्ज् विटेटेन सह स्वयं रतनः रचितवान्। एतत् भवनं टाटा उद्यमानां अधिकृतः केन्द्रकार्यालयः अस्ति। एतस्य शङ्कुस्थापना १९२१ तमे वर्षे अभवत्। [[ताजमहल् प्यालेस्]]|'गेट् वे आफ् इण्डिया’]] महाद्वारस्य तथा 'प्रिन्स् आफ् वेल्स्’ संग्रहालयसदृशयोः भव्यभवनयोः निर्माता वास्तुशिल्पी जार्ज् विटेट् बाम्बे हौस् निर्माणम् अङ्गीकृत्य सुचारुतया कार्यं समापितवान्। १९२४ तमे वर्षे एतस्य विध्युक्तरीत्या उद्घाटनम् अभवत्। ततः पूर्वं नवसारिहौस् टाटा उद्यमस्य प्रमुखः कार्यालयः आसीत्।
 
=='''दाने शूरः रतनटाटा'''==
१९१३तः-१९१७वर्षपर्यन्तं [[पाटना|पाटलीपुत्रे]] ब्रिटिष् सर्वकारेण कृतस्य संशोधनस्य उत्खननकार्ये रतनटाटा आर्थिकसाहाय्यं कृतवान्। तस्मिन् उत्खनने अशोकचक्रवर्तिनः कालस्य मयूरसिंहासनं[[मयूरः|मयूर]]सिंहासनं प्राप्तम्। १९२२ तमे वर्षे [[लन्डन्|लण्डन्]] नगरस्य 'स्कूल् आफ् एकनामिक्स्’ इत्यत्र दारिद्र्यनिवारणायै विशेषाध्ययनार्थं संशोधनकेन्द्रम् आरभ्य धनसाहाय्यं कर्तुं तेन चिन्तितम् आसीत्। लण्डनदेशस्थम् अत्यन्तं प्राचीनम् ऐतिहासिकं यार्कहौस् भवनं ड्यूक् डे अर्लियन्स् तः टैकन् ह्याम् नगरे क्रीतवान्। टाटा उद्यमे यद्यपि रतनटाटा निर्देशकः आसीत् तथापि समग्रं दायित्वं तस्य अग्रजौ निर्वहतः स्म। पिता तु वस्त्रस्य उद्यमे बहु धनं आर्जितवान् आसीत् । ततः रतनेन अपि बहु धनं प्राप्तम्। स्वस्य सर्वं भागं देशस्य औन्नत्यै रक्षितवान् आसीत् सः। रतनस्य पत्नी नवाजबायी। तयोः अपत्यं नासीत्। सर् रतनटाटा ट्र्स्ट्तः विविधाः संस्थाः आर्थिकसाहाय्यं प्राप्य अभिवृद्धिं प्राप्तवन्तः सन्ति। तासु प्रमुखाः—
:1 Servants of India society.
:2 Mahatma Gandhi and south Africa.
"https://sa.wikipedia.org/wiki/रतन_टाटा" इत्यस्माद् प्रतिप्राप्तम्