"अक्कमहादेवी" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{लिङ्गायतमतम्}}
'''अक्कमहादेवी''' (ಅಕ್ಕ ಮಹಾದೇವಿ)(११३० - ११६०) कर्णाटके द्वादशशतके सम्पन्नस्य वीरशैवभक्ति-आन्दोलनस्य प्रमुखा व्यक्तिः । तया कन्नडभाषया लिखितानि वचनानि कन्नडभक्तिसाहित्याय दत्तानि अत्युत्तमानि उपायनानि । तया आहत्य ४३० वचनानि लिखितानि । बसवेश्वर, चेन्नबसवण्ण, किन्नरि बोम्मय्य, सिद्धराम, अल्लमप्रभु, दासिमय्य इत्यादयः वीरशैवशरणाः सर्वे ताम् आदरेण 'अक्क' (अग्रजा) इति निर्दिशन्ति स्म इत्येतदेव द्योतयति तस्याः महिमानम् । कर्णाटकेतिहासे सा अत्यन्तं प्रभाविनी प्रेरणादात्री महिला वर्तते । सा परमेश्वरं शिवं (चेन्नमल्लिकार्जुनः) एव पत्युः रूपेण अङ्गीकृतवती, या च माधुर्यभक्तिः मधुरभावः इति मन्यते ।
[[File:Akkamahadevi Udathadi1.JPG|250px|thumb|right|जन्मस्थले उडुतडीग्रामे प्रतिष्ठापिता अक्कमहादेव्याः मूर्तिः]]
[[File:Akkamahadevi Vachana.JPG|250px|thumb|right|अक्कमहादेव्या रचितं किञ्चन प्रसिद्धं वचनम्]]
 
==जन्म बाल्यं च==
[[कर्णाटक]]स्य वीरशैवजङ्गमभक्ताः शरणाः इति कथ्यन्ते । तादृशेषु शिवशरणेषु सती महादेवी एव अक्कमहदेवी इति प्रसिद्धा । द्वादशे शतके निर्मलशेट्टीसुमत्योः पुत्री, कर्णाटकराज्यस्य [[बनवासी]]प्रदेशस्य बळ्ळीगावे समीपस्थे '''उडुतडी'''ग्रामे ११३० तमे वर्षे जन्म प्राप्तवती । महादेव्याः मातापितरौ जैनमतावलम्बिनौ अनन्तरं शिवशरणौ जातौ आस्ताम् । एतयोः अपत्यानि न आसन्, मरुळसिद्धेश्वरशरणस्य अनुग्रहेण एका शिशुः जाता । तस्याः नाम एव '''महादेवी'''। मरुळसिद्धेश्वरशरणस्य कृपाकटाक्षतः एतस्याः कुटुम्बीयाः श्रीशैलचेन्नमल्लिकार्जुनस्य भक्ताः अभवन् । महादेव्याः विषये अधिकाः विषयाः न प्राप्ताः चेदपि मरुळसिद्धेश्वरशरणस्य प्रभावतः लिङगपूजायाम् आसक्तिः उत्पन्ना इति ज्ञायते । किन्तु गुरुलिङगदेवः इति कश्चित् शरणः काले काले गुरुस्थाने स्थित्वा मार्गदर्शनं कृतवान् ।
==वैराग्यम् ==
गुरुलिङगदेवस्य कारणेन महादेवी विरागिणी जाता । आचारमती, शीलवती, विचारवती महादेवी कथं संस्कारेण विना विरागिणी, शिवस्य भक्ता च जाता इत्येव आश्चर्यकरम् । एषः दैवयोगः इति वक्तुं शक्यः ।
"https://sa.wikipedia.org/wiki/अक्कमहादेवी" इत्यस्माद् प्रतिप्राप्तम्