"गौतमबुद्धः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १७:
निखिलेऽपि भूमण्डले प्रसिद्धं महात्मनो बुद्धस्य पावनं नामधेयम् । अयं महापुरुषः मानवान् अहिंसायाः पाठम् अपाठयत् । अयमेव महापुरुषः जनानां दुःखनिवारणाय स्वकीयं राज्यमत्यजत ।
 
सोऽयं म्हापुरुषःमहापुरुषः कपिलवस्तुनरेशस्य[[माण्डव्यः|कपिलवस्तु]]नरेशस्य शाक्यवंशीयस्य शुद्धोदनस्य सुपुत्रः आसीत् । अस्य प्रथमं नामधेयं सिद्धार्थ इति आसीत् । बाल्यादेव सिदार्थस्य चित्तं विषयेषु नारमत । पुत्रस्य एतादृशीं विरक्तिं विलोक्य पिता तत् कृते सकलानि सुखसाधनानि समयोजयत् । परं सिद्धार्थस्य चित्तं तेषु मनागपि आसक्तं नाभवत् ।
अथ कदाचित् आतुरं कदाचि्त् वृद्धम्, अनन्तरं मृतकं ततः [[जीवन्मुक्तिविवेकः (विभागः संन्यासः)|संन्यसिनं]] च विलोक्य तस्य हृदये महदवैराग्यम् अजायत । अतः मानवानां दुःखनिवृत्तये राजकुमारः सिद्धार्थः रात्रौ पियां पन्तीं नवजातं पुत्रं च विहाय गृहात् प्राव्रजत् ।
 
ततः स प्रथमं पंचभिः [[ब्राह्मणः|ब्राह्मणैः]] सह [[तपस्विभ्योऽधिको योगी.|तपः]] आचरत्, किन्तु तेन त्स्य मनः पूर्णसन्तोषं नाभजत । अनन्तरं सः महता श्रमेण सतताभ्यासेन तपस्यया च एकस्मिन् दिने बोधम् अलभत । ततः प्रभृति स बुद्ध इति प्रसिद्दोऽभवत् । ततः स जनेभ्यः उपादिशत "जगदिदं दुःखमयम्, दुःखस्य मूलं कामना, कामनायाः उन्मूलनम् साध्यम्, एवं दुःखनिवृत्तिः सम्भाव्या" इति । महात्मा बुद्धः एतेषां चतुर्णाम् आर्यसत्यानां प्रचारम् अकरोत् । सः जनानां दुःखनिवारणाय तेषां कल्याणाय च उपादिशत् । इमे तस्य प्रमुखाः उपदेशाः -लौकिकसुखेभ्यः विरक्तो भवेत् । मनसा वाचा कर्मण अहिंसायाः पालनं कुर्यात् । सदा सत्यं वदेत् । क्स्यापि किमपि वस्तु कदापि न चोरयेत् । सर्वान् समदृष्ट्या पश्येत् । सत्कर्म कुर्यात् । सर्वेषु दयामाचरेत् । शरणागतान् रक्षेत् । अधिकं संग्रहं न कुर्यात् । ब्रह्मचर्यं पालयेत् इति ।
 
एतेषां पालनेनैव सुखं शान्तिश्च भवितुम् अर्हति । महात्मनो बुद्धस्य विचाराणाम् उपदेशानां च प्रचारः न केवलं भारते, अपि तु चीनजापानलंकादिषु[[चीनादेशः|चीन]][[जपान्|जापान]][[श्रीलङ्का|लंकादिषु]] देशेषु लोकप्रियता्म् अलभत ।
 
भारतीय धर्मगुरुः भगवान् बुद्धः ज्ञानिषु श्रेष्ठः इति विख्यातः । गौतम्या पोषितः इति सः गौतमबुद्धः । कोशलगणराज्यस्य राज्ञः शाक्यवंशीयस्य शुद्धशीलस्य शुद्धोदनस्य तथा तत्पत्न्याः पतिव्रतायाः मायादेव्याश्च पुत्रः सिद्धार्थः । असौ वैराग्यमवलम्ब्य गौतमबुद्धो बभूव ।
पङ्क्तिः ३०:
देशेऽस्मिन् गौतमबुद्धस्य काले धर्मस्य स्थाने सर्वत्र अधर्मस्यैव विकटाटृहासः विजृम्भमाणः आसीत् । यज्ञयागादिषु पशुबलिः नरबलिः इत्यादयः हिंसाक्रमाः प्रचलिताः अवर्तन्त । गौतमबुद्धस्तु 'अहिंसा परमो धर्मः’ इति सनातनं तत्त्वं पुनः संस्थापितवान् ।
 
गौतमबुद्धस्य मार्गः [[बौध्दधर्म:|बौद्धधर्मः]] इति क्रमेण ख्यातः । सम्राजः अशोकादारभ्य अगणिताः चक्रवर्तिनः बौद्धधर्मस्य अनुयायिनो भूत्वा विदेशेष्वपि अस्य प्रचारमकुर्वन् । चीन-जपानादिदेशेषु अद्यापि बौद्धधर्मीयाः बहवः सन्ति ।
 
*[[भारतीय-सूची]]
"https://sa.wikipedia.org/wiki/गौतमबुद्धः" इत्यस्माद् प्रतिप्राप्तम्