"चैतन्यः महाप्रभुः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः २:
 
[[चित्रम्:Chaitanya-Mahabrabhu-at-Jagannath.jpg|thumb|चैतन्य महाप्रभुः]]
चैतन्य महाप्रभुः (१४८६-१५३४) कश्चन [[वैष्णवम्|वैष्णवधर्मगुरुः ]]। समाजपरिवर्तयिता च । तेन अधुनातन-[[बाङ्गलादेशः|बाङ्ग्लादेशः]], [[पश्चिमबङ्गलराज्यम्|पश्चिमवङ्गस्य]] राज्यानि, [[बिहारराज्यम्|बिहार्]], [[झारखण्डराज्यम्|झार्खण्ड्]], [[मणिपुरराज्यम्|मणिपुर]], [[असमराज्यम्|असमप्रदेशेषु]] कार्यं कृतम् । हरिः सर्वोत्तमः इति प्रतिपादयन्तः गौडीयवैष्णवभक्ताः तस्य अनुयायिनः । वैष्णवभक्तियोगस्य संवर्धने तदीयं पात्रं महत्त्वपूर्णम् आसीत् । भागवतपुराण-भगवद्गीतयोः तत्त्वस्य आधारः तेन आश्रितः । हरे कृष्ण महामन्त्रस्य जपकरणस्य प्रचारः तेन कृतः । संस्कृते तेन शिक्षाष्टकं रचितम् । तस्य अनुयायिनः गौडीयवैष्णवाः तं कृष्णस्य अवतारतूपः इति मन्यन्ते । भागवतपुराणे यथा उक्तं तथा सः राधाराज्ञीभावरूपः कृष्णः इति मन्यते ।
 
सः गौरवर्णीयः आसीत् इत्यनेन 'गौर' इति नाम्ना, निम्बवृक्षस्य अधः जन्म प्राप्तवान् इत्यतः 'निमै' इति नाम्ना च प्रसिद्धः । तस्य चरित्रविषये बहवः ग्रन्थाः उपलभ्यन्ते । तेषु कृष्णादास कविराज गोस्वामिना लिखितं चैतन्यचरितामृतं, वृन्दावनदसेन लिखितं चैतन्यभागवतम्, लोचनदासेन लिखितं चैतन्यमङ्गलञ्च प्रसिद्धम् । वङ्गभाषया रचितानि एतानि अधुना अन्याभिः भाषाभिः उपलभ्यन्ते ।
"https://sa.wikipedia.org/wiki/चैतन्यः_महाप्रभुः" इत्यस्माद् प्रतिप्राप्तम्