"चैतन्यः महाप्रभुः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८:
== जीवनम् ==
 
चैतन्यचरितामृतग्रन्थस्य अनुसारं चैतन्यः १४८६ तमे वर्षे फेब्रवरिमासस्य १८ दिनाङ्के चन्द्रग्रहणदिने पूर्णिमायां जन्म प्राप्नोत् । पितृभ्यां सः 'विश्वम्भरः' इति नामाङ्कितः । तस्य पिता जगन्नाथमिश्रः माता शचिदेवी । चैतन्यः द्वितीयः पुत्रः आसीत् । ते [[पश्चिमबङ्गलराज्यम्|पश्चिमवङ्गे]] [[नदियामण्डलम्|नदीयाप्रदेशे]] (नवद्वीपे) अवसन् । चैतन्यस्य पितामहः मधुकरमिश्रः मूलतः [[ओडिशाराज्यम्|ओरिस्साराज्यस्य]] जयपुरप्रदेशीयः । ततः तेन पश्चिमवङ्गं प्रति आगतम् ।
 
[[चित्रम्:Chaitanya Birth Place.jpg|thumb|left|चैतन्यस्य जन्मस्थानम्]]
तारुण्ये एव चैतन्यः महान् ज्ञानी वादविशारदश्च आसीत् । बाल्यतः एव सः [[कृष्णः|कृष्णजपे]] नितराम् आसक्तः आसीत् । संस्कृताध्ययने ज्ञानार्जने च सः विशेषतया आसक्तिमान् आसीत् । पितृकार्यनिर्वहणाय गयां प्रति गमनावसरे तेन गुरुः ईश्वरपुरि अमिलत् । तस्मात् सः गोपालकृष्णमन्त्रस्य उपदेशं प्राप्तवान् । एतस्मात् मेलनात् तस्य व्यक्तित्वं नितरां परिवर्तितं जातम् । ज्ञानी सः भक्तरूपेण परिवर्तितः आसीत् । तस्य प्रत्यागमनानन्तरं तं दृष्ट्वा सर्वे आश्चर्यान्विताः अभवन् । अचिरात् सः तत्रत्यवैष्णवसमूहस्य नेता जातः ।
 
कृष्णभारतीद्वारा संन्यासग्रहणानन्तरं चैतन्यः भगवतः कृष्णस्य नामजपं कुर्वन् आभारतं बहु वारम् आटत् । स्वस्य जीवनस्य अन्तिमानि २४ वर्षाणि तेन ओरिस्सायाः पुरिजगन्नाथक्षेत्रे अयापयत् । ओरिस्सायाः सूर्यवंशी हिन्दुराजः गजपति महाराज प्रतापरुद्रदेवः चैतन्यं साक्षात् भगवतः कृष्णस्य अवताररूपमेव मन्यते स्म । तदीयेषु संकीर्तनमेलासु सोत्साहं भागं वहति स्म । एतेषु एव दिनेषु चैतन्यः देवप्रेम्णा भक्त्या च बहुधा समाधिस्थितौ भवति स्म इति कथ्यते तस्य अनुयायिभिः ।
"https://sa.wikipedia.org/wiki/चैतन्यः_महाप्रभुः" इत्यस्माद् प्रतिप्राप्तम्