"चैतन्यः महाप्रभुः" इत्यस्य संस्करणे भेदः

पङ्क्तिः ३२:
[[चित्रम्:Chaitanya sankirtan.jpg|thumb|चैतन्यसङ्कीर्तनम्]]
== चैतन्यसम्प्रदायः ==
मध्वाचार्यसम्प्रदायेन[[मध्वाचार्यः|मध्वाचार्य]]सम्प्रदायेन दीक्षितः चैतन्यः शङ्करसम्प्रदायेन[[आदिशङ्कराचार्यः|शङ्कर]]सम्प्रदायेन संन्यासं स्व्यकरोत् इति कारणतः तदीयानि तत्त्वानि वैष्णवसम्प्रदायतः[[वैष्णवम्|वैष्णव]]सम्प्रदायतः भिन्नः इति परिगण्यते । सः ईश्वरपुरिणा मन्त्रोपदेशं केशवभारत्या संन्यासदीक्षां च स्व्यकरोत् । एतौ उभौ अपि शङ्करस्य अद्वैतवादिनौ ।
 
शिक्षाष्टकं विना चैतन्यमहाप्रभुणा न किमपि लिखितम् । शिक्षाष्टकमपि तेन न लिखितम् अपि तु उक्तम् । तत् केनचित् समीपवर्तिना ध्वनिमुद्रितम् । एतेषु अष्टसु श्लोकेषु गौडीयवैष्णवमतस्य समग्रतत्त्वानि विद्यन्ते । स्वस्य भक्तितत्त्वानां व्यवस्थितक्रमेण उपस्थापनाय तेन षट् अनुयायिनः प्रार्थिताः । ते षड् जनाः अग्रे [[वृन्दावनम्|वृन्दावनस्य]] षड् गोस्वामिनः इति प्रसिद्धाः । ते - रूपागोस्वामी, सनातनगोस्वामी, गोपालभट्टगोस्वामी, रघुनाथभट्टगोस्वामी, रघुनाथदासगोस्वामी, जीवगोस्वामी । गौडीयवैष्णवतत्त्वानां व्यवस्थितरूपदानाय एते कारणभूताः ।
 
नरोत्तमदासठाकूरः, श्रीनिवासाचार्यः, श्यामानन्दपण्डितश्च जीवगोस्वामिनः सकाशात् अध्ययनम् अकुर्वन् । ते पश्चिमवङ्गे, ओरिस्सा इत्यादिषु प्रदेशेषु चैतन्यस्य उपदेशस्य प्रचारं व्यापकतया अकुर्वन् । रामचन्द्रकविराजः गङ्गानारायणचक्रवर्ती च प्रचारकार्यम् अकुर्वन् ।
पङ्क्तिः ४०:
खेतुरि-उत्सवावसरे एदम्प्राथम्येन चैतन्यस्य सर्वे अनुयायिनः एकत्र सम्मिलिताः । तदा नित्यानन्दप्रभोः पत्नी जाह्नवठाकुरानि आध्यक्षम् अवहत् । तादृशेषु उत्सवेषु विभिन्नशाखानाम् अनुयायिनः एकत्र सम्मिलन्ति स्म । अस्मिन् एव समये नित्यानन्द-अद्वैताचार्ययोः शिष्याः विरभद्र-कृष्णमिश्रश्च सम्प्रदायस्य रक्षणाय कौटुम्बिकपरम्पराम् आरब्धवन्तौ । आधुनिकगौडीयसम्प्रदायस्य प्रमुखशाखायाः प्रतिनिधिः अस्ति नित्यानन्दस्य पुत्रः वीरभद्रः । अद्वैताचार्यस्य वंशीयाः अन्ये अनुयायिनश्च वङ्गराज्यस्य ग्रामप्रदेशेषु विशेषपरिश्रमम् अकुर्वन् । चैतन्यस्य युवसहवर्ती वक्रेश्वरपण्डितस्य अनुयायी गोपालगुरुगोस्वामी ओरिस्साराज्ये अन्यां शाखाम् आरब्धवन्तः । सम्प्रदायस्य आन्तरिकपूजाविधानेषु गोपालस्य तच्छिष्यस्य ध्यानचन्द्रस्य च महान् प्रभावः दृश्यते ।
 
चैतन्यस्य भक्ति-आन्दोलनस्य आरम्भारभ्य हिन्दवः यवनाः च अस्मिन् भागं वहन्ति स्म । अनेन विशालमनोभावेन आकृष्टः भक्तिविनोद ठाकूरः २० तमे शतके स्वस्य गौडीयमठे भक्तिसिद्धान्तसरस्वती संस्थापिता । [[भक्तिवेदान्तस्वामी प्रभुपादः|ए सि भक्तिवेदान्त स्वामी प्रभुपादेन]] पाश्चात्यदेशं प्रति चैतन्यतत्त्वानि नीतानि । अयं भक्तिसिद्धान्तसरस्वती ठाकुरशाखायाः अनुयायी । भक्तिवेदान्तस्वामी समग्रे जगति चैतन्यस्य उपदेशानां प्रसाराय आन्दोलनम् आरब्धवान् -[[इस्कान् संस्था|इस्कान् (International Society for Krishna Consciousness)]] नाम्ना । सारस्वतगुरवः आचार्याः, गोस्वामीवंशस्य सदस्याः, [[मथुरा|मथुरा]]-पश्चिमवङ्ग-ओरिस्सादिषु प्रदेशेषु निवसन्तः भक्ताः, चैतन्ये आदरवन्तः अन्ये च कृष्ण-चैतन्ययोः मन्दिराणि पाश्चात्यदेशेषु २० तमशतकस्य अन्तिमभागे निर्मितवन्तः । २१ तमे शतमाने बह्वीषु शैक्षणिकसंस्थासु विष्णवभक्तिः कृष्णतत्त्वञ्च अध्ययनविषयः जातः अस्ति ।
 
== सांस्कृतिकपरम्परा ==
"https://sa.wikipedia.org/wiki/चैतन्यः_महाप्रभुः" इत्यस्माद् प्रतिप्राप्तम्