"चैतन्यः महाप्रभुः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४:
चैतन्य महाप्रभुः (१४८६-१५३४) कश्चन [[वैष्णवम्|वैष्णवधर्मगुरुः]]। समाजपरिवर्तयिता च । तेन अधुनातन-[[बाङ्गलादेशः|बाङ्ग्लादेशः]],[[पश्चिमबङ्गलराज्यम्|पश्चिमवङ्गस्य]] राज्यानि, [[बिहारराज्यम्|बिहार्]],[[झारखण्डराज्यम्|झार्खण्ड्]], [[मणिपुरराज्यम्|मणिपुर]],[[असमराज्यम्|असमप्रदेशेषु]] कार्यं कृतम् । हरिः सर्वोत्तमः इति प्रतिपादयन्तः [[गौडी|गौडीयवैष्णवभक्ताः]] तस्य अनुयायिनः । वैष्णवभक्तियोगस्य संवर्धने तदीयं पात्रं महत्त्वपूर्णम् आसीत् ।[[भागवतपुराणम्|भागवतपुराण]]-[[भगवद्गीता|भगवद्गीतयोः]] तत्त्वस्य आधारः तेन आश्रितः । हरे [[कृष्णः|कृष्ण]] महामन्त्रस्य जपकरणस्य प्रचारः तेन कृतः । [[संस्कृतम्|संस्कृते]] तेन शिक्षाष्टकं रचितम् । तस्य अनुयायिनः गौडीयवैष्णवाः तं कृष्णस्य [[कृष्णजन्माष्टमी]]|अवतारतूपः इति मन्यन्ते । भागवतपुराणे यथा उक्तं तथा सः राधाराज्ञीभावरूपः कृष्णः इति मन्यते ।
 
सः गौरवर्णीयः आसीत् इत्यनेन 'गौर' इति नाम्ना,[[जम्बीरम्|निम्ब]]वृक्षस्य अधः जन्म प्राप्तवान् इत्यतः 'निमै' इति नाम्ना च प्रसिद्धः । तस्य चरित्रविषये बहवः [[ग्रन्थसम्पादनप्रविधिः|ग्रन्थाः]]उपलभ्यन्ते । तेषु कृष्णादास कविराज [[तुलसीदासः|गोस्वामिना]] लिखितं चैतन्यचरितामृतं, [[वृन्दावनम्| वृन्दावनदासेन]] लिखितं चैतन्यभागवतम्, लोचनदासेन लिखितं चैतन्यमङ्गलञ्च प्रसिद्धम् । वङ्गभाषया रचितानि एतानि अधुना अन्याभिः भाषाभिः उपलभ्यन्ते ।
 
== जीवनम् ==
पङ्क्तिः ११:
 
[[चित्रम्:Chaitanya Birth Place.jpg|thumb|left|चैतन्यस्य जन्मस्थानम्]]
तारुण्ये एव चैतन्यः महान् ज्ञानी वादविशारदश्च आसीत् । बाल्यतः एव सः [[कृष्णः|कृष्णजपे]] नितराम् आसक्तः आसीत् । [[सम्स्क्तुतभषयाह मह्हत्वम्|संस्कृताध्ययने]] [[ज्ञानम्|ज्ञानार्जने]] च सः विशेषतया आसक्तिमान् आसीत् । पितृकार्यनिर्वहणाय [[गया| प्रति गमनावसरे तेन गुरुः ईश्वरपुरि अमिलत् । तस्मात् सः गोपालकृष्णमन्त्रस्य उपदेशं प्राप्तवान् । एतस्मात् मेलनात् तस्य व्यक्तित्वं नितरां परिवर्तितं जातम् । ज्ञानी सः भक्तरूपेण परिवर्तितः आसीत् । तस्य प्रत्यागमनानन्तरं तं दृष्ट्वा सर्वे आश्चर्यान्विताः अभवन् । अचिरात् सः तत्रत्यवैष्णवसमूहस्य नेता जातः ।
 
कृष्णभारतीद्वारा संन्यासग्रहणानन्तरं चैतन्यः भगवतः कृष्णस्य नामजपं कुर्वन् आभारतं बहु वारम् आटत् । स्वस्य जीवनस्य अन्तिमानि २४ वर्षाणि तेन ओरिस्सायाः पुरिजगन्नाथक्षेत्रे अयापयत् । ओरिस्सायाः सूर्यवंशी हिन्दुराजः गजपति महाराज प्रतापरुद्रदेवः चैतन्यं साक्षात् भगवतः कृष्णस्य अवताररूपमेव मन्यते स्म । तदीयेषु संकीर्तनमेलासु सोत्साहं भागं वहति स्म । एतेषु एव दिनेषु चैतन्यः देवप्रेम्णा भक्त्या च बहुधा समाधिस्थितौ भवति स्म इति कथ्यते तस्य अनुयायिभिः ।
 
चैतन्यस्य साम्प्रदायिकानुयायिभिः एवं विश्वस्यते - चैतन्ये उभयव्यक्तित्वम् आसीत् - कृष्णप्रेम्णा मत्तः भक्तः, राधया सह अविनाभावेन युक्तः स्वयं कृष्णश्च । १६ शतकस्य लेखकाः उल्लिखन्ति यत् चैतन्येन कृष्णस्य विश्वरूपदर्शनं स्वयं बहुधा प्रदर्शितं विशेषतया नित्यानन्दप्रभु-[[अद्वैतवेदान्तः|अद्वैताचार्ययोः]] उपस्थितौ ।
 
== उपदेशः ==
"https://sa.wikipedia.org/wiki/चैतन्यः_महाप्रभुः" इत्यस्माद् प्रतिप्राप्तम्