"बाल गङ्गाधर तिलक" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १८:
 
==वैयक्तिकजीवनम्==
बालगङ्गाधरतिलकस्य जन्म क्रि.श.१८५६तमे वर्षे जुलै २३तमे दिने भारतस्य [[महाराष्ट्रराज्यम्|महाराष्ट्रराज्ये]] रत्नगिरिमण्डले मध्यमस्तरीये कुटुम्बे अभवत् <ref>{{cite web | url=http://ratnagiri.nic.in/Tourism/emi_person.aspx | title="EMINENT PERSONALITIES". | accessdate=13 मार्च 2014}}</ref>। पिता गङ्गाधरपन्तः, माता पार्वतीबायी । बाल्ये एव बुद्धिमतः तिलकस्य गणिते अतीव आसक्तिः आसीत् । बालः दशवर्षीयः यदा आसीत् तदा पितुः [[पुणे|पुणेनगरं]] प्रति स्थानपरिवर्तनं जातम् । बालः वेर्नाक्युलर् आङ्ग्लविद्यालयं प्राविशत् । पुणेगमनानन्तरं स्वल्पावधौ एव माता दिवङ्गता । ततः षड्वर्षाणाम् अनन्तरं पिता अपि दिवङ्गतः । दुर्बलशरीरः बालः देशसेवा समीचीनतया करणीया चेत् शरीरं दृढतमं स्यात् इति विचिन्त्य व्यायामादीनाम् अभ्यासद्वारा परिश्रमपूर्वकं दृढं शरीरं सम्पादितवान् । सत्यभामा अस्य पत्नी । महाविद्यालयात् आधुनिकविद्यां प्राप्तेषु युवसु बालगङ्गाधरः अपि अन्यतमः अभवत् । पदवीं प्राप्य पुणे ([[पुण्यपत्तनम्]]) नगरे स्वायत्तशालायां गणिताध्यापकत्वेन कार्यम् आरब्धवान् । कञ्चित्कालानन्तरं तम् उद्योगं त्यक्त्वा पत्रकारः अभवत् । पाश्चिमात्यशिक्षाक्रमः भारतीयसनातनपरम्परां दूषयति अपि च भारतस्य विद्यार्थिषु हीनभावं जागर्ति इति निश्चित्य अस्य आधुनिकशिक्षाप्रणाल्याः विरोधम् अकरोत् । छात्राणां कृते उत्तमा शिक्षा लभेत इति उद्देशेन [[पुण्यपुरम्|पुण्यपुरे]] (पुणेनगरे) डेक्कन् एजुकेषन् सोसैटि इति शालाम् उपाक्रमत् <ref>{{cite book | title=“The Deccan Education Society” The Journal of Asian Studies, vol. 20 | author=D. D. Karve | pages=206-207.}}</ref>।
 
==राजकीयजीवनम्==
"https://sa.wikipedia.org/wiki/बाल_गङ्गाधर_तिलक" इत्यस्माद् प्रतिप्राप्तम्