"बाल गङ्गाधर तिलक" इत्यस्य संस्करणे भेदः

पङ्क्तिः २१:
 
==राजकीयजीवनम्==
तिलकमहोदयेन उपक्रान्तः [[केसरी]] इति [[मराठीभाषा|मराठीभाषायाः]] [[वार्तापत्रिका]] अतिशीघ्रं प्रसिद्धा अभवत् । अस्यां पत्रिकायां जनाः स्वाभिप्रायान् प्रकटयितुम् अर्हन्ति स्म । क्रि.श. १९०५तमे वर्षे [[बङ्गालराज्यम्पश्चिमबङ्गलराज्यम्|बङ्गालस्य]] विभजनस्य विरोधं केसरीपत्रिका प्रबलतया अकरोत् । क्रि.श.१८९०तमे वर्षे तिलकमहोदयः [[भारतीयराष्ट्रियकाङ्ग्रेस्|काङ्ग्रेस्]] पक्षं प्रविष्टवान्, स्वातन्त्र्यान्दोलने तस्य पक्षस्य औदार्यं मृदुनीतिं च खण्डितवान् । [[गोपालकृष्ण गोखले|गोपाकृष्ण गोखले]]महोदयस्य सौम्यवादं तीव्रतया निन्दितवान् । अस्मिन् विषये [[बङ्गालराज्यम्|बङ्गालस्य]] [[बिपिन चन्द्रपालः]] [[पञ्जाबराज्यम्|पञ्जाबस्य]] [[लाला लजपत राय्]] च तिलकमहोदयस्य अनुमोदनं कृतवन्तौ । क्रि.श. १९०७तमे वर्षे सम्भूते [[सुरत|सूरत्]] अधिवेशने काङ्ग्रेस्-पक्षः तिलकस्य नेतृत्वे घर्मदलः इति गोखलेवर्यस्य नेतृत्ते मृदुदलः इति द्विधा विभक्तः । राजद्रोहस्य आक्षेपात् क्रि.श.१९०६तमे वर्षे तिलकस्य बन्धनम् अभवत् । तदा स्वपक्षे न्यायवादं करोतु इति युवानं न्यायवादिनं [[मोहम्मद् अलि जिन्ना]] इत्येतं प्रार्थितवान् । किन्तु ब्रिटिश् न्यायाधीशः एषः अपराधी इति उद्घुष्टवान् । अतः सः क्रि.श.१९०८तः१९१४तमवर्षपर्यन्तं बर्मादेशस्य ([[ब्रह्मदेशः]]) मंडाले कारावासम् अनुभूतवान् <ref>{{cite book | title=Encyclopedia of Asian History. "Tilak, Bal Gangadhar" | publisher=New York: Charles Scribner's Sons and Macmillian Publishing Company | year=1988 | pages=98}}</ref>। विमोचनानन्तरं स्वस्य सहचरराष्ट्रवादिभिः सह तिलकमहोदयः क्रि.श.१९१६तमे वर्षे काङ्ग्रेस्-पक्षस्य सङ्घाटनं संवर्ध्य अखिलभारतस्य हों रूल् लीग् इति सङ्घटनस्य रचानायाम् अनिबेसण्ट् मोहम्मद् अलि जिन्ना एतयोः सहाय्यं समाचरत् ।
 
==सामाजिकयोगदानानि==
"https://sa.wikipedia.org/wiki/बाल_गङ्गाधर_तिलक" इत्यस्माद् प्रतिप्राप्तम्