"बाल गङ्गाधर तिलक" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २४:
 
==सामाजिकयोगदानानि==
बालगङ्गाधर तिलकमहोदयः मूलतः अद्वैतवेदान्तस्य प्रतिपादकः। अद्वैतसिद्धान्तस्य ज्ञानादेव तु कैवल्यम् इति वचने तस्य विश्वसः नासीत् । अतः तत्स्मानं पूरकं च कर्मयोगं तत्र योजितवान् । विवाहस्य वयसः कनिष्ठमानः इत्यादीनि सामाजिकपरिवर्तनानि आनीतवान् । मद्यपाननिषेधस्य विषये तस्य अतीव प्रमतिः आसीत् । शिक्षायाः राजकीयस्य च जीवनविषये अस्य चिन्तनानि प्रभवायुतानि आसन् । देवनागरीलिपिम् उपयुज्य लिख्यमाना [[हिन्दीभाषा|हिन्दिभाषा]] राष्ट्रभाषा भवेत् इति प्रथमतया उक्तवान् तिलकः एव । अग्रे महात्मा गान्धिः अपि एतं विषयं गाढम् अनुमोदितवान् । किन्तु यां भाषां तिलकमहोदयः भारतात् एव अपनेतुम् इष्टवान् सा [[आङ्ग्लभाषा]] अधुना अपि प्रधानसंवहनभाषात्वेन राजते । तथापि हिन्दी चान्यभाषाः ब्रिटिष् कालात् अद्यपर्यन्तमपि प्रादेशिकत्वेन भाष्यमाणाः सन्ति । अस्मिन् अपि तिलकमहोदयस्य योगदानम् अस्ति एव । तिलकमहोदयस्य अतिमहत् योगदानं नाम सार्वजनिकः [[गणेशोत्सवः]] । भाद्रपदमासस्य शुक्लपक्षस्य चतुर्दशीतः आरभ्य अनन्तचतुर्दशी पर्यन्तं द्वादशदिनानि अयं सार्वजनिकगणेशोत्सवः सर्वैः मिलित्वा आचर्यते । स्वायत्तं धार्मिकाचरणं सङ्घटनस्य व्याजेन सार्वजनिकोत्सवत्वेन परिवर्तितवान् । एतम् उत्सवम् अवलम्ब्य एव जननायकाः जनसम्पर्कम् अकुर्वन् । तिलकमहोदयेन आरब्धा इयम् उत्सवपरम्परा इदानीमपि विशेषतः [[महाराष्ट्रराज्यम्|महाराष्ट्रराज्ये]] अस्ति । तिलकमहोदयः परदेशीयवस्तूनि तिरस्कृत्य स्वदेशीयवस्तूनि उपयोक्तुं जनजागरणं कृतवान् । तदानीम् एतत् स्वदेशीयान्दोलनं विशेषरूपेण जनेषु देशभक्तिं समवर्धयत् <ref>{{cite book | title=The Making of India: A Historical Survey | publisher=Armonk: M.E. Sharpe, Inc | author=Ranbir Vohra | year=१९९७ | pages=१२०}}</ref>।
[[चित्रम्:Bal Gangadhar Tilak.jpg|150px|thumb|left|बालगङ्गाधरतिलकः]]
 
"https://sa.wikipedia.org/wiki/बाल_गङ्गाधर_तिलक" इत्यस्माद् प्रतिप्राप्तम्