"चन्द्रशेखर आजाद" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{Dead end|date=जनुवरि २०१४}}
[[चित्रम्:Chandrashekharji.jpg|thumb|right|200px|<center>'''चन्द्रशेखर आजाद'''</center>]]
==जननम् बाल्यम् च==
चन्द्रशेखरआजादः'''चन्द्रशेखर आजाद''' [[भारतम्|भारतदेशस्य]] स्वातन्त्र्यसम्पादनार्थम् आङ्गलशासनविरुद्धम् आन्दोलनं कृतवान् । स्वातन्त्र्यं मे जीवितम् इति सः अमन्यत । अयं चतुर्विंशे वयसि शत्रुभिः परिवृतः सन् गोलकावेधेन आत्मनैव [[आत्मा|आत्मानं]] मारितवान् क्रान्तिवीरः । चन्द्रशेखरः [[मध्यप्रदेशराज्यम्|मध्यप्रदेशे]] भावराग्रामे षडधिकनवदशशततमे (१९०६) क्रिस्ताब्दे जुलैमासे त्रयोविंशतितमे दिने अजायत । तस्य पिता सीतारामतिवारिः । सः कस्मिंश्चित् उपवने वनपालक आसीत् । माता जगराणीदेवी । बाल्ये एव चन्द्रशेखरः [[संस्कृतम्|संस्कृतभाषामभ्यसितुं]] [[काशी|वाराणसीं]] गत्वा तत्र अध्ययनम् आरभत। तस्मिन्नेव समये सर्वत्र भारते स्वातन्त्र्यान्दोलनं प्रचलितमासीत् । तत्काले क्रूरं जलियन्वालाहत्याप्रकरणं श्रुत्वा उद्विग्नः चन्द्रशेखरः भारतदेशे आङ्गल-शासनम् उन्मूलयितुमैच्छत् । तदानीं [[मोहनदास करमचन्द गान्धी|महात्मागान्धीमहाभागः]] [[लालालजपत रायः|लाललजपतरायः]], [[मदनमोहन मालवीयः|मदनमोहनमालवीयः]] इत्यादयो नेतारः भारतीयस्वातन्त्रान्दोलनस्य धुरीणाः आसन् ।
 
==असहकारान्दोलनम्==
पङ्क्तिः २३:
 
{{भारतस्य स्वातन्त्र्यसङ्ग्रामः}}
 
""
 
[[वर्गः:भारतीयदेशभक्ताः]]
"https://sa.wikipedia.org/wiki/चन्द्रशेखर_आजाद" इत्यस्माद् प्रतिप्राप्तम्