"भीमराव रामजी आंबेडकर" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३९:
==बाल्यं शिक्षा च==
डा ॥ भीमरावरामजी अम्बेडकरमहोदयस्य जन्म [[महाराष्ट्रम्|महाराष्ट्रस्य]] अम्बावाड इति ग्रामे १८९१ तमे वर्षे (एकनवत्युत्तर-अष्टादशशत्-तमे वर्षे) एप्रिलमासे चतुर्दशदिनाङ्के अभवत । भीमस्य पिता रामजी सक्पालः माता च भीमाबायी । मातापित्रोः सततपूजाप्रार्थनानां फलम् इव भीमस्य जन्म अभवत् । भीमस्य आदर्शव्यक्तित्वनिर्माणे तस्य जननीजनकयोः पात्रं महात्त्वपूर्णम् आसीत् । एतयोः दम्पत्योः पूर्वजाः कबीरपथस्य अनुयायिनः आसन् । एते मांसाहारं मधुपानादिकं च त्यक्तवन्तः आसन् । भीमस्य गृहपरिसरः नैर्म्ल्यन सरलतया भक्तिभावेन न युक्तः आसीत् ।बालकस्य मनसि गृहपरिसरस्य प्रभावः आसीत् ।
रामजी सक्पालः विद्यावान् आसीत् । यद्यपि निर्धनः तथापि [[संस्कृतम्|सुसंस्कृतः]] सः अनेकान् आदर्शनियमान् अनुसरति स्म । कर्तव्यम् एव दैवम इति सः भावयति स्म । अतः एव सः रामजी सक्पालः कर्तव्यपरायणः सत्यवादी उदारः धर्मरतः च आसीत् । प्रतिदिनं गृहे सर्वैः कौटुम्बकैः सह देवसङ्कीर्तनं सश्रद्धं करोति स्म । एषः धार्मिकगुणः तस्य पुत्रे सुसंस्कारं वर्धयितुं प्रमुखं कारणम् अभवत् । न केवलं देवसङ्कीर्तनं किन्तु [[रामायणम्|रामायण]] - महाभारतकथाश्रवणम् अपि रामजी कारयति स्म । आध्यात्मिकविद्यया सह एव सक्पालः पुत्रेभ्यः आङ्ग्लभाषां गणितं च पाठयति स्म । रामजी सक्पालः समाजसेवातत्परः आसीत् । फुले महात्मना प्रभावितः सः शोषितबन्धूनां कष्टानि निवारयितुं प्रयत्नं कृतवान । एवं भीमजी पितुः सकाशात उद्यमशीलताम् अन्याय - अत्याचारप्रतिरोध्स्वभावं मानसिकस्थैर्यं शोषितेषु अनुरागं च शिक्षितवान । भीमस्य माता अपि सद्गुणोपेता सुसंस्कृता च आसीत् । परन्तु यदा भीमः षड्वर्षीयः तदैव सा दिवं गता । ततः रामजी सक्पालस्य अनुजा मीरा एव भीमं मातृवात्सल्येन पुपोष । भीमस्य अध्ययनकाले प्रौढशालायाम् "अम्बावाडेकर्" इति एकः अध्यापकः आसीत् । करुणालुः सः भीमं प्रीत्या आनीय भोजनं दत्त्वा अपोषयत् ।"अम्बावाडेकर" अध्यापकं प्रति भीमस्द्य अपि गौरवं बह्क्रिश्च आस्ताम् । वात्सल्यातिशयेन अध्यापकः भीमनाम्ना सह अम्बावाडेकर पदम अपि संयुज्य व्यवह्रुतवान् । ततः परम् "अम्बेडकर्" इति नाम्ना जगति प्रसिद्धो बभूव । यदा रामजी सक्पालः निवृत्तः तदा ग्रामम् उत्सृज्य मुम्बयीनगरम् आगतवान् । तत्र तस्य गृहे अध्ययनार्थम् अवकाशः नासीत् । अतः सक्पालः मध्यरात्रपर्यन्तं जागरितः भूत्वा पुत्रं पठनार्थम् उत्थाप्य तदनन्तरं स्वयं निद्रां करोति स्म । सक्पालः पुत्रम् आङ्गलभाषां सम्यक पाठितवान् । तस्मादेव भीमः आङ्गलभाषायां श्रेष्ठः वाग्मी लेखकः ग्रन्थकर्ता च अभवत् । स्वयं धनविहीनोऽपि रामजी पुत्राय अनेकानि पुस्तकानि क्रीत्वा पठनार्थ दत्तवान् । एवं भीमस्य ज्ञानदाहं पिता शमयति स्म । तस्य बुद्धिं पोष्यति स्म । पितुः प्रोत्साहेन भीमः "मेट्रिक्" परीक्षायाम् उत्तीर्णोऽभवत् । तत्काले तत्कुलजनानाम् एषा सिद्धिः अपूर्वा एव आसीत् । एकस्मिन सम्मानसमारम्भे केलूस्करामहोदयः भीमाय "गौतमबुद्धः" इति स्वलिखितं गन्थम् उपहारुपेण दत्तवान् । महात्मनः बुद्धस्य जीवनगाथया भीमस्य मनः नितान्तं प्रभावितम् अभवत् । तस्मै सः ग्रन्थः नवचैतन्यम् अयच्छत् । पितुः प्रोत्साहेन केलूस्करमहाभागस्य सहकारेण प्रेरितः अन्तः स्फूर्त्या च भीमः प्रौढाध्यायनं कृतवान् । केलूस्करप्रेरितः महाराजः सैय्यजिरावगायकवाडः भीमाय प्रतिमासं पञ्चविंशतिरुप्यकाणि विद्यार्थिवेतनत्वेन ददाति स्म । विश्वविद्यालये अपि "मुल्लर्" इति प्राध्यापकः भीमस्य निशितमत्या प्रभावितः तस्मै आवश्यकानि पुस्तकानि वस्त्राणि च दत्त्वा तं प्रेरयामास । एव्ं सर्वेषां प्रत्साहेन भीमः सतताध्ययनेन परिश्रमेण च बि.ए परीक्षायाम् उत्तीर्णो भूत्वा पितुः आशाम् अपूरयत् । अनन्तरं सः महाराजगायकवाडस्य सैन्ये "लेफिटनेण्ट्" पदे नियुक्तः । परन्तु तस्मिन् एव समये तस्य प्रियकरः पिता दिवं गतः । भीमरावरामजी अम्बेडकर- सदृशं धीमन्तं नायकं राष्ट्रहिताय दत्त्वा सः महोदयः पञ्चत्वम् आपन्नः । तस्मिन् एव समये बरोडमहाराजः कांश्चन प्रतिभायुक्तान् छात्रान् विशेषाढ्ययनार्थं विद्यार्थिवेतनं दत्त्वा विदेशं प्रेषयति इति वृत्तान्तं भीमः श्रुतवान । धानार्जने निरुत्सुकः भीमः स्वाधिकारस्थानं त्यक्त्वा विशेषाद्य्यायनं कर्तुं निश्चितवान् । अचिरात एव राज्ञः समीपं गत्वा सः विद्यार्थिवेतनं प्रार्थितवान् । एतस्य मेधाशक्तिम् अदम्योत्साहं च दृष्ट्वा महाराजः भीमं विदेशं प्रेषयितुम् अङ्गीकृतवान् ।
 
==विदेशे उन्नतशिक्षा==
"https://sa.wikipedia.org/wiki/भीमराव_रामजी_आंबेडकर" इत्यस्माद् प्रतिप्राप्तम्