"भीमराव रामजी आंबेडकर" इत्यस्य संस्करणे भेदः
Content deleted Content added
No edit summary |
No edit summary |
||
पङ्क्तिः ३९:
==बाल्यं शिक्षा च==
डा ॥ भीमरावरामजी अम्बेडकरमहोदयस्य जन्म [[महाराष्ट्रम्|महाराष्ट्रस्य]] अम्बावाड इति ग्रामे १८९१ तमे वर्षे (एकनवत्युत्तर-अष्टादशशत्-तमे वर्षे) एप्रिलमासे चतुर्दशदिनाङ्के अभवत । भीमस्य पिता रामजी सक्पालः माता च भीमाबायी । मातापित्रोः सततपूजाप्रार्थनानां फलम् इव भीमस्य जन्म अभवत् । भीमस्य आदर्शव्यक्तित्वनिर्माणे तस्य जननीजनकयोः पात्रं महात्त्वपूर्णम् आसीत् । एतयोः दम्पत्योः पूर्वजाः कबीरपथस्य अनुयायिनः आसन् । एते मांसाहारं मधुपानादिकं च त्यक्तवन्तः आसन् । भीमस्य गृहपरिसरः नैर्म्ल्यन सरलतया भक्तिभावेन न युक्तः आसीत् ।बालकस्य मनसि गृहपरिसरस्य प्रभावः आसीत् ।
रामजी सक्पालः विद्यावान् आसीत् । यद्यपि निर्धनः तथापि सुसंस्कृतः सः अनेकान् आदर्शनियमान् अनुसरति स्म । कर्तव्यम् एव दैवम इति सः भावयति स्म । अतः एव सः रामजी सक्पालः कर्तव्यपरायणः सत्यवादी उदारः धर्मरतः च आसीत् । प्रतिदिनं गृहे सर्वैः कौटुम्बकैः सह देवसङ्कीर्तनं सश्रद्धं करोति स्म । एषः धार्मिकगुणः तस्य पुत्रे सुसंस्कारं वर्धयितुं प्रमुखं कारणम् अभवत् । न केवलं देवसङ्कीर्तनं किन्तु [[रामायणम्|रामायण]] - [[महाभारतम्|महाभारतकथाश्रवणम्]] अपि रामजी कारयति स्म । आध्यात्मिकविद्यया सह एव सक्पालः पुत्रेभ्यः [[आङ्ग्लभाषा|आङ्ग्लभाषां]] [[गणितम्|गणितं]] च पाठयति स्म । रामजी सक्पालः समाजसेवातत्परः आसीत् । फुले महात्मना प्रभावितः सः शोषितबन्धूनां कष्टानि निवारयितुं प्रयत्नं कृतवान । एवं भीमजी पितुः सकाशात उद्यमशीलताम् अन्याय - अत्याचारप्रतिरोध्स्वभावं मानसिकस्थैर्यं शोषितेषु अनुरागं च शिक्षितवान । भीमस्य माता अपि सद्गुणोपेता सुसंस्कृता च आसीत् । परन्तु यदा भीमः षड्वर्षीयः तदैव सा दिवं गता । ततः रामजी सक्पालस्य अनुजा मीरा एव भीमं मातृवात्सल्येन पुपोष । भीमस्य अध्ययनकाले प्रौढशालायाम् "अम्बावाडेकर्" इति एकः अध्यापकः आसीत् । करुणालुः सः भीमं प्रीत्या आनीय भोजनं दत्त्वा अपोषयत् ।"अम्बावाडेकर" अध्यापकं प्रति भीमस्द्य अपि गौरवं बह्क्रिश्च आस्ताम् । वात्सल्यातिशयेन अध्यापकः भीमनाम्ना सह अम्बावाडेकर पदम अपि संयुज्य व्यवह्रुतवान् । ततः परम् "अम्बेडकर्" इति नाम्ना जगति प्रसिद्धो बभूव । यदा रामजी सक्पालः निवृत्तः तदा ग्रामम् उत्सृज्य [[मुम्बई|मुम्बयीनगरम्]] आगतवान् । तत्र तस्य गृहे अध्ययनार्थम् अवकाशः नासीत् । अतः सक्पालः मध्यरात्रपर्यन्तं जागरितः भूत्वा पुत्रं पठनार्थम् उत्थाप्य तदनन्तरं स्वयं निद्रां करोति स्म । सक्पालः पुत्रम् आङ्गलभाषां सम्यक पाठितवान् । तस्मादेव भीमः आङ्गलभाषायां श्रेष्ठः वाग्मी लेखकः ग्रन्थकर्ता च अभवत् । स्वयं धनविहीनोऽपि रामजी पुत्राय अनेकानि पुस्तकानि क्रीत्वा पठनार्थ दत्तवान् । एवं भीमस्य ज्ञानदाहं पिता शमयति स्म । तस्य बुद्धिं पोष्यति स्म । पितुः प्रोत्साहेन भीमः "मेट्रिक्" परीक्षायाम् उत्तीर्णोऽभवत् । तत्काले तत्कुलजनानाम् एषा सिद्धिः अपूर्वा एव आसीत् । एकस्मिन सम्मानसमारम्भे केलूस्करामहोदयः भीमाय
==विदेशे उन्नतशिक्षा==
|