"ज्ञानपीठप्रशस्तिः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
 
[[चित्रम्:Vagdevi1.jpg|thumb|200px|प्रशस्त्याः सरस्वतीमूर्तिः]]
 
एषा '''ज्ञानपीठप्रशस्ति:''' भारते कृतां साहित्यक्षेत्रीयाम् अपूर्वां सिद्धिम् अभिलक्ष्य दीयते प्रतिवर्षम् । ‘दि टैम्स् आफ् इण्डिया’-पत्रिकाया: प्रकाशकै: साहुजैनपरिवारीयै: ‘भारतीयज्ञानपीठ’नामक: न्यास: प्रतिष्ठापित: । श्री साहुशान्तिप्रसादजैन, श्रीमती रमा जैन च एतस्य प्रतिष्ठापकौ । एतेन न्यासेन दीयते एषा प्रशस्ति: । प्रशस्तिरेषा पञ्चलक्षरूप्यकात्मिका भवति इदानीम् । संविधानेन अनुमतया ययाकयाचिदपि भाषया कृता कृतिरचना एव एतां प्रशस्तिं प्राप्तुम् अर्हा भवति । भारतस्य लेखकानां कृते दीयमाना प्रतिष्ठिता प्रशस्तिः अस्ति। एषा प्रशस्तिः भारतस्य संविधानस्य अष्टमानुच्छेदे याः भाषाः उल्लिखिताः तासां भाषाणां अत्युत्तमभारतीयलेखकस्य कृते दीयते । एषा प्रशस्तिः [[१९६०]] तमवर्षस्य मेमासस्य २२ तमे दिनाङ्के स्थापिता । प्रथमतया एषा प्रशस्तिः १९६५ तमे वर्षे [[मलयालस्य]] लेखकाय श्रीमते जि.शङ्करकुरुपाय प्रदत्ता । विजेतारः प्रशस्तिफलकेन, पञ्चलक्षरूप्यकैः , वाग्देव्याः कांस्यप्रतिमया च सम्मानिताः भवन्ति ।
"https://sa.wikipedia.org/wiki/ज्ञानपीठप्रशस्तिः" इत्यस्माद् प्रतिप्राप्तम्