"लक्ष्मीबाई" इत्यस्य संस्करणे भेदः

(लघु) NehalDaveND इति प्रयोक्त्रा झान्सीलक्ष्मीबायी इत्येतत् झांसी लक्ष्मीबाई इत्येतत् प्रति चालितम्
No edit summary
पङ्क्तिः २३:
}}
 
'''झान्सीराणीलक्ष्मीबाय्याः''' जन्म १८३५तमे संवत्सरे नवेम्बरमासस्य १९ तमे दिनाङ्के अभवत् । सा १८५८ तमे वर्षे जूनमासस्य १७ दिनाङ्के दिवङ्गता। लक्ष्मीबायी [[काशी|वारणास्यां]] अजायत। सा [[झान्सी|'''झान्सी]] की राणी''' इति नाम्ना अवर्धत। भारतस्य प्रथमे स्वातन्त्र्यसङ्ग्रामे तस्याः प्रमुखं योगदानम् अस्ति। सा [[आङ्ग्लभाषा|आङ्लविरोधनीते:]] प्रतीका आसीत्। लक्ष्मीबायी उत्तरभारतस्थितस्य झान्सीराज्यस्य राज्ञी आसीत्। सा आङ्लेयान् विरुद्ध्य भारतस्य स्वातन्त्र्यसङ्रामम् आरब्धवती।
 
महाराज्ञी लक्ष्मीः
अस्याः वीरांगनायाः जन्म [[महाराष्ट्रराज्यम्|महाराष्ट्रे]] राज्ये कृष्णानद्यास्तटे एकस्मिन् ग्रामे पञ्चत्रिंशदधिके अष्टादशशततमे वर्षे (१८३५) समभूत् । शैशवे अस्याः नाम् 'मनुबाई' इति अभूत् । अस्याः जनकः मोरोपन्तः तदानीं पेशवा बाजीरावस्य सेवायामसीत् । अस्याः जननी 'भागीरथी बाई' साध्वई ईशभक्ता च नारी आसीत् । उभावपि तां प्रियां सुतां मनुदेवीं स्नेहेन अपालयताम् । तदा बाजीरावः [[कानपुरम्|कानपुर]] नगरस्य समीप्स्थिते बिठूरनामके स्थाने न्यवसत्, मनुदेव्याः शिक्षणं तत्र अभवत् । तत्र सा अचिरं शास्रविद्यां शस्त्रविद्यां च अलभत् । सा तत्र नैपुण्यम् अवाप्त्नोत् । अश्वारोशणेऽपु मनुवाई अतीव कुशला अभवत् ।
अनन्तरं झांसीजनपदस्य नरेशः गंगाधरः मनुदेव्याः पाणिग्रहणम् अकरोत् । ततः परं मनुबाई, 'रानी लक्ष्मीबाई' इति नाम्ना प्रसिद्धा अभवत् । उद्वाहाद् अनन्तरम् अपि सा अश्वारोहणं शस्त्राभ्यासञ्च नात्यजत् ।
एतस्मिन्नेव काले आंग्लजनाः भारते स्व प्रभुत्व्स्थापनाय यलशीलाः अभवन् । कूटनीतिप्रयोगेण दिने दिने तेषां प्रभुत्वम् अवर्धत ।
"https://sa.wikipedia.org/wiki/लक्ष्मीबाई" इत्यस्माद् प्रतिप्राप्तम्