"लक्ष्मीबाई" इत्यस्य संस्करणे भेदः

पङ्क्तिः ४९:
 
== महान् आघातः ==
ईशवीये १८५१ तमे वर्षे महाराज्ञ्याः लक्ष्मीबाय्याः एकः पुत्रः जातः । किन्तु दौर्भाग्यवशात् मासत्रये एव सः बालः मृतः | गङ्गाधररावस्य राज्यभवितव्यविषये चिन्ता जाता । सा चिन्ता मानसिकतया तं निर्वीर्यं कृतवती । तस्य मनोवेदनायाः अन्यदपि कारणमासीत् - तदानीन्तन: गवर्नर् जनरल् [[डल्हौसी|डल्हौसी]] इत्यस्य क्रूरपालनम् । तस्मिन् समये केचन राजानः आङ्ग्लेयानां साहाय्यं प्राप्तवन्तःआसन्। तदर्थं तेषां कृते कश्चन नियमः कल्पितःआसीत् । 'यदि सन्ततिं विना राजा मृतो भवति, तर्हि तस्य राज्यम् आङ्ग्लेयाः स्वायत्तीकुर्युः। यदि सः राजा यं कमपि बालकं दत्तकपुत्ररूपेण स्वीकृतवान् अस्ति तर्हि अपि तस्य बालकस्य परिपालनाधिकारो न भवेत् 'इति। तादृशऱाज्यकुटुम्बजनानां कृते प्रतिवर्षं भरणं देयम् । राज्यरक्षणं तु आङ्ग्लेयाः एव कुर्युः । एतत् डल्हौसीपालनविधानमासीत् ।
एतान् नियमान् आश्रित्य आङ्ग्लेयाः अनेकानि राज्यानि हस्तगतानि कृतवन्तः। अधुना झान्सीराज्ये तेषां दृष्टिः पतिता। गङ्गाधररावस्य वार्धाक्ये एषः महान् आघातः। सः चिन्ताग्रस्तः जातः। ईशवीये १८५३ तमे वर्षे लक्ष्मीबायी- गङ्गाधररावौ आनन्दराव् इति कञ्चन बालकं दत्तकरूपेण स्वीकुर्वः इति निश्चितवन्तौ । दत्ततास्वीकरणानन्तरं तस्य बालस्य दामोदरराव् इति नाम कृतवन्तौ।
 
== आशा न नष्टा ==
दत्ततास्वीकरणानन्तरं गङ्गाधररावः आङ्ग्लेयानुद्दिश्य किञ्चन पत्रं लिखितवान् । दत्ततास्वीकारविधानस्य सर्वान् विषयान् सः तस्मिन् पत्रे विवृतवान् । स्वीयदत्तपुत्रं स्वस्य राज्यस्य उत्तराधिकारिरूपेण अङ्गीकुर्वन्तु । तं राज्यस्य प्रतिनिधिरूपेण अङ्गीकुर्वन्तु इत्यपि प्रार्थितवान् असीत् स: । आङ्ग्लेयानां, झान्सीराज्यस्य मध्ये विद्यमानं स्नेहसम्बन्धमपि सः तस्मिन् पत्रे स्मारितवान् असीत्। मेजर् एलिस् हस्ते एतत् पत्रं दत्त्वा लार्ड डाल्हौसी कृते एतत् प्रापणीयमिति प्रार्थितवान् ।
"https://sa.wikipedia.org/wiki/लक्ष्मीबाई" इत्यस्माद् प्रतिप्राप्तम्