"छत्रपति शिवाजी" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः २३:
==शत्रूणां स्ंहार:==
शिवराजः स्वराज्यनिर्माणे सफल: भवन्नस्तीति दृष्ट्वा आदिलशाहस्य (बीजपुरसुलतानस्य) मनः व्याकुलितम् अभवत् । निस्पृहता आवृता । 'शिवराजः आस्मिन् दिने एतद् दुर्गं जितवान्, ह्यः तद् दुर्गं जितवान् ’ इत्यादि वार्ताः प्रतिदिनं सः श्रृणोति स्म । राज्ञः सपत्नीमाता उलियाबेगम् नाम्नी शिवराजं नितरां द्वेष्टि स्म। सा प्रख्यातान् सर्वान् वीरानाहूय सभामेकाम् आयोज्य -"शिवराजं बन्धुं यस्य धैर्यसाहसादिकम् अस्ति, सः एतं खड्गं स्वीकरोतु’ इति पन्थाह्वानं कृतवती । सभायाः मध्ये पटवस्त्रेण आवृतः खड्गः आसीत् ।तदा बृहदाकारकः दृढकायः कश्चन सेनापतिः उत्थितवान् । पुरतः आगत्य तं खड्गं गृहीतवान् । तस्य नाम अफजलखानः । आदिलशाहसभायां मुख्यसेनानीषु अयम् एकः ।यथा अयं पराक्रमी, तथा वञ्चकः, क्रूरश्च । पञ्चविंशतिसहस्रयोधै: युक्तं बलिष्ठं सैन्यं स्वीकृत्य सः शिवराजं ग्रहीतुं प्रस्थितवान् ।
आरम्भे अफजलखानः तुलजापुरस्थं देवीमन्दिरं स्वह्स्ताभ्यां ध्वस्तं कृतवान् । तुलजापुरभवानी शिवराजस्य कुलदेवता । एवमेव
[[पण्ढपुरम्|पण्ढरपुरस्थां]] मूर्तिमपि ध्वस्तवान् । खानेन क्रीयमाणानां दुष्कृत्यानाम्, अत्याचाराणाञ्च वार्ताः शिवराजं प्राप्नुवन्त्येव । शिवराजः यावत् दुर्गेषु, अरण्येषु तिष्ठति, तावत् तस्य बन्धनं नैव सुकरं भवति इति खानः जानाति स्म । देवालयानां ध्वंसः, स्त्रीणाम् अत्याचारः, गवां हननम् इत्यादि अकृत्यानि कुर्मः चेत् शिवराजः अवश्यं बहिरागमिष्यतीति, विनायासं तं ग्रहीतुं शक्नुमः इति अफजलस्य कुतन्त्र्म् आसीत् ।
किन्तु शिवराजः स्वपरिधिम् अतिक्रम्य बहिः नागतवान् । अफजलखानस्य कुतन्त्रं सः ज्ञातवान् । दुर्गं त्यक्त्वा बहि: युध्दं क्रियते चेत् अफजलः अवश्यं जेष्यतीति सः जानाति स्म । अतिगहनारण्ये नूतनतया निर्मितं प्रतापदुर्गं प्राप्य, कथञ्चित् अफजलखानं तत्र आनयामः इति उपायं रचितवान् शिवराजः । अस्मिन्नेव समये भवनीमाता स्वप्ने शिवराजस्य साक्षादभूय ’ निश्चयेन तव विजयो भविष्यति’ इति आशिषो दत्तवती ।
यथाकथञ्चित् शिवराजं प्रतापगढतः भूप्रान्तम् आनेतुम् अफजलखानः एकं दूतं शिवराजस्य समीपे प्रेषितवान् । तस्मै दूताय अनेकाः रहस्यसूचनाः च दत्तवान् । शिवराजं प्राप्तः सः दूतः अतिविनम्रं " खान् महोदयः भवतः पितुः उत्तममित्रम् अस्ति । अतः सः भवन्तं न बाधयति । भवान् आगत्य तेन मिलतु ।" इति सूचितवान् । शिवराजः इतोऽपि विवेकेन एकं पत्रं विलिख्य स्वदूतद्वारा खानं प्रति प्रेषितवान् । " भवान् मम पितृव्येण तुल्यः । मम कारणेन जातान् दोषान् क्षाम्यतु । भवान् प्रतापगढम् आगत्य मां धन्यं कृत्वा, महाराजस्य समीपं नयतु ।" इति लिखितवान् । शिवराजस्य लेखे दृश्यमानं भयं ज्ञात्वा खानः अत्यन्तमानन्दितवान् । शिवराजस्य लेखहारः युक्तिपरः । सः खानस्य धैर्यसाहसादिकम् अत्यन्तं प्रशंसन् शिवराजस्य भीरुतां वर्णीतवान् । खानः अधिकं मोदम् अनुभूतवान् ।
Line ४१ ⟶ ४२:
एतेन संघटनेन शिवराजस्य शत्रूणां भीतिरवर्धत । एतावत्पर्यन्तं सः एकः पर्वतीयमूषक इत्येव चिन्तयन्तः आसन् ते । इदानीं तु तस्य समीपे मन्त्रतन्त्रादिकम् अस्तीति, सः भूतो वा पिशाचो वा भवेदिति भावयन्ति स्म-। एतां सम्पूर्णां वार्तां श्रुत्वा औरङ्गजेबः लज्जया स्तम्भीभूतः । षयिस्तेखानं दण्डयित्वा वङ्गप्रदेशं प्रेषितवान् ।
स्वराज्यनिर्माणार्थं, पदातिदल-नौकादलनिर्माणार्थं, राज्ये उत्तम-परिपालनरचनाय, विशिष्य शत्रुनिग्रहणार्थं धनम अत्यन्तमावश्यकम् । अतः अन्यमार्गो नास्तीति शत्रुभ्य एव धनं सम्पादनीयम् इति निश्चितवान् शिवराजः । औरङ्गजेबस्य कोशागारम् अपहर्तुं निश्चयः जातः । तेषु दिनेषु सूरतनगरं कुबेरनिवासः इति, धनिकानां निलयः इति च प्रवादः आसीत् । ततः एव शिवराजः आगण्यं धनम् आर्जितवान् ।
 
==मुघलचक्रवर्तिनः जालः==
शिवराजस्य चेष्टाः औरङ्गजेबस्य शिरोवेदना इव जाताः कोपेन तप्तः सः । शिवराजं नाशयितुम् अत्यधिकेन सैन्येन दक्षिणप्रान्तमगन्तुमैच्छत् । किन्तु तस्य पर्वतमूषकस्य नखतीक्ष्णताम् पूर्वमेव आस्वादयत् सः । अतः किञ्चिदालोच्य् 'सिंहं प्रतियोद्धुं सिंह एव आवश्यक’इति निश्चितवान् । एतस्य कार्यस्य कृते मीरजामहाराजं जयसिहं चितवान् ।
"https://sa.wikipedia.org/wiki/छत्रपति_शिवाजी" इत्यस्माद् प्रतिप्राप्तम्