"छत्रपति शिवाजी" इत्यस्य संस्करणे भेदः

 
==मुघलचक्रवर्तिनः जालः==
शिवराजस्य चेष्टाः [[औरङ्गजेबः|औरङ्गजेबस्य]] शिरोवेदना इव जाताः कोपेन तप्तः सः । शिवराजं नाशयितुम् अत्यधिकेन सैन्येन दक्षिणप्रान्तमगन्तुमैच्छत् । किन्तु तस्य पर्वतमूषकस्य नखतीक्ष्णताम् पूर्वमेव आस्वादयत् सः । अतः किञ्चिदालोच्य् 'सिंहं प्रतियोद्धुं सिंह एव आवश्यक’इति निश्चितवान् । एतस्य कार्यस्य कृते [[मिर्जापुरम्|मीरजामहाराजं]] जयसिहं चितवान् ।
राजा जयसिंहः न केवलं महान् पराक्रमी, विवेकी सेनापतिश्च । एतादृशः योग्यः पुरुषः परधर्मीयाणां सेवायां ध्न्यो भवामीति चिन्तयतीति ल्ज्जास्पदः विषयः अस्माकम् । अधिकसेनया जयसिंहः दक्षिणापथमागतः बीजपुरसुलतानेन सन्धिं विरचितवान् । सर्वाभ्यः दिग्भ्यः शिवराजं परितः सेनां निवेशितवान् । शिवराजः एकेन लेखेन सन्घिं प्रस्तुतवान् । तथैव जयसिंहेन मिलित्वा संभाषणं कृत्वा औरङ्गजेबेन सह संभाषणार्थमपि अङ्गीकृतवान् ।
सह्याद्रिगिरिशिखरेषु स्वेच्छया विहरन् मृगराजः शिवराजः किमर्थम् एवं हठात् चक्रवर्तिनः वशीभूतः ? इति सर्वे आश्चर्यचकिताः जाताः ।अग्रे कोऽपि गूढार्थः भवतीति सर्वे भावयन्ति स्म । सेवां करोमीति व्याजेन गत्वा औरंगजेबं ह्न्यात् इत्यपि चिन्तयन्ति स्म केचन । एतेन शिवराजस्य धैर्यसाहसादिविषये, समयस्फूर्तिविषये, समयं दृष्ट्वा शत्रुनाशनाय युक्तिप्रयोगविषये च जनाः कथं विश्वासं प्राप्तवन्त: आसन्निति अस्माभिः ज्ञायते । चिन्तनानुसारं शिवराजः स्वपुत्रेण सम्भाजिराजेन सह औरङ्गजेबेन मेलितुं प्रस्थितः । राजकुटुम्बिनः, पौराः च किं भविष्यति इति उत्कण्ठया आसन् । मार्गमध्ये अनेके हिन्दवः सादरं स्वागतं कृतवन्तः । शिवराजः आगरां प्राप्तवान् । तस्य कुटिलोपायविषये औरङ्गजेबः अपि अल्पचिन्तनं न कृतवान् । अत एव शिवराजं कदापि स्वसमीपमागन्तुं नाङ्गीकृतवान् । राजसभायामपि शिवराजस्य स्थानं दूरे एव अस्थापयत् । एतेन शिवराजः स्वचिन्तनाग्नौ दैवेन शीतोदकं सिञ्चितमिति भावितवान् । 'शिवराजं सगौरवं पश्यामि इति’ जयसिंहाय वचनं द्त्तवान् औरङ्गजेबः स्ववचोव्याघातं कुर्वन् शिवराजम् अपमानितवान् । शिवराजः परं क्रोधाग्निना ज्वलितः । औरङ्ग्जेबस्य यथा अपमाननं भवेत् तथा राजसभां त्यक्त्वा गतवान् ।
पूर्वनिर्दिष्टप्रणाल्यनुसारं शिवराज- शाम्भराजयोः कृते अश्वौ सिद्धौ आस्ताम् । करण्डकेभ्यः बहिरागत्य तौ दक्षिणादिशं प्रस्थितौ । अतिवेगेन प्रयातौ तौ । मध्येमार्गं रामदासस्य मठाः तेषाम् अपयोगाय अभवन् । संन्यासिवेषे शिवराजः रायदुर्गं प्राप्तवान् । एकक्षणं जीजामाता शिवराजं न ज्ञातवती । अभिज्ञानानन्तरं पुत्रम् आलिङ्ग्य अनन्दाश्रूणि सारितवती । मातापुत्रयोः समागमः सर्वानन्दकरः अभवत् ।
दक्षिणादेशस्थाः तस्य शत्रवः 'सः आगरातः पलायितः’ इति ज्ञात्वा भीतिम् अनुभूतवन्तः । तेषां वाक् न निस्सरति स्म् । इदानीं किं भविष्यतीति कम्पितवन्तः । एतया घतनया शिवराजस्य कीर्तिः देशे दशदिशः व्याप्ता । अत्यन्तं कपटः आसीत् औरङ्गजेबः । तस्य अक्षणोः धूलिं प्रक्षिप्य, तस्य अधीनतः, राजधानीतः, प्रतिदिनं रक्षद्भ्यः रक्षकभटेभ्यः सकाशात् आत्मानं गोपायित्वा सः पलायितवान् । सर्वाभ्यः दिग्भ्यः अनुधावतां सहस्रसङ्ख्याकानां मुघलसैनिकानाम् अक्षीणि निमेल्य सः सहस्रमीलदूरं प्रययौ । एतादृशं पराक्रमोपेतं, युक्तिमन्तम् अपूर्वं पुरुषं लोके पूर्वं कदापि , कुत्रापि ,को?ऽपि न दृष्टवान् ।
 
==धर्मपरिरक्षकः==
हिन्दुजातेः प्रेरणा यथा भवेत् तथा हिन्दुसाम्राज्यं निर्मितवान् शिवराजः । किन्तु शास्त्रोक्तविधानेन तावत्पर्यन्तं पट्टाभिषिक्तः नाऽभवत् । अत एव केचन शिवराजं महाराजत्वेन नाङ्गीकृतवन्तः । शिवराजस्य एतं लोपं पूरयितुं काशीपण्डितः कश्चन सिदध: अभवत् । तस्य नाम् गागाभट्टः । सः शास्त्रोक्तविधिना शिवराजस्य राज्याभिषेकं कारितवान् । १६७४तमे वर्षे एतादृश-द्विव्यसङ्घटनसमये शिवराजस्य वयः चत्वारिंशत् वर्षाणि । सर्वदुर्गेषु श्रेष्ठतमं रायदुर्गं शिवराजः स्वराज्यस्य राजधानीं कृतवान् । परमपवित्रौ मातुः चरणौ स्पृष्ट्वा, आशिषः प्राप्य रत्नखचितस्वर्णसिंहासने आसीनः । गागाभट्टः शिवराजस्य शिरसि स्वर्णच्छत्रं धारयित्वा 'छत्रपतिः’ इति घोषितवान् । सुवासिन्यः नीराजनं समर्पितवत्यः । साधवः सन्यासिनश्च आशिषो दत्तवन्तः । अस्मिन् महोत्स्वे भागं ग्रहीतुं दूरप्रदेशेभ्यः सहस्रशो जनाः समागतवन्तः । ते सर्वे आनन्दोत्साहेन 'छत्रपतिः श्रीशिवमहाराजः जयतु ’ इति मुक्तकण्ठं जयकारं कृतवन्तः । रायदुर्गे सर्वत्र जयघोषाय शतघ्निध्वनयः श्रुताः ।
२,६५६

सम्पादन

"https://sa.wikipedia.org/wiki/विशेषः:MobileDiff/271821" इत्यस्माद् प्रतिप्राप्तम्