"छत्रपति शिवाजी" इत्यस्य संस्करणे भेदः

 
==धर्मपरिरक्षकः==
[[हिन्दूधर्मः|हिन्दुजातेः]] प्रेरणा यथा भवेत् तथा हिन्दुसाम्राज्यं निर्मितवान् शिवराजः । किन्तु शास्त्रोक्तविधानेन तावत्पर्यन्तं पट्टाभिषिक्तः नाऽभवत् । अत एव केचन शिवराजं महाराजत्वेन नाङ्गीकृतवन्तः । शिवराजस्य एतं लोपं पूरयितुं काशीपण्डितः कश्चन सिदध: अभवत् । तस्य नाम् गागाभट्टः । सः शास्त्रोक्तविधिना शिवराजस्य राज्याभिषेकं कारितवान् । १६७४तमे वर्षे एतादृश-द्विव्यसङ्घटनसमये शिवराजस्य वयः चत्वारिंशत् वर्षाणि । सर्वदुर्गेषु श्रेष्ठतमं रायदुर्गं शिवराजः स्वराज्यस्य राजधानीं कृतवान् । परमपवित्रौ मातुः चरणौ स्पृष्ट्वा, आशिषः प्राप्य रत्नखचितस्वर्णसिंहासने आसीनः । गागाभट्टः शिवराजस्य शिरसि स्वर्णच्छत्रं धारयित्वा 'छत्रपतिः’ इति घोषितवान् । सुवासिन्यः नीराजनं समर्पितवत्यः । साधवः सन्यासिनश्च आशिषो दत्तवन्तः । अस्मिन् महोत्स्वे भागं ग्रहीतुं दूरप्रदेशेभ्यः सहस्रशो जनाः समागतवन्तः । ते सर्वे आनन्दोत्साहेन 'छत्रपतिः श्रीशिवमहाराजः जयतु ’ इति मुक्तकण्ठं जयकारं कृतवन्तः । रायदुर्गे सर्वत्र जयघोषाय शतघ्निध्वनयः श्रुताः ।
बीजपुरसुलतानः, आंग्लेयाः शिवराजं स्वतन्त्रराजरूपेण सम्मान्य पुरस्कृतीः प्रेषितवन्तः । एतस्य अद्भुतस्य दृश्यस्य समर्थरामदासः अत्यानन्देन काव्यरूपं कल्पितवान् । "एषा भूमिः, धर्मश्च उद्धृतौ, रक्षितौ च । भव्यः स्वराज्यभानुः समुदितः ।" इति सः लिखितवान् ।
शत्रून् पराजित्य, राज्यसथापनमात्रेण शिवराजः न तृप्तः । प्रजानां सुखसन्तोषाद्यर्थम् अनेकविधं प्रयत्नं सः व्यदधात् । प्रजाः भगवत्स्वरुपाः इति भावितवान् । प्रजानां पीडा भवति चेत् न सहते स्म । प्रजाश्रेयसे स्वसैन्यम् अत्यन्तदूरमपि प्रेषयति स्म ।"मध्येमार्गं कुत्रापि प्रजानां किञ्चिदपि कष्टं न भवेत् । सस्यक्षेत्रेषु पर्णानि अपि सैनिकगमनकारण्तः न चलेयुः " इति आज्ञां ददाति स्म । कृषकाणां शिवराजः प्रेमस्वरूपः । धनिकाः भूस्वामिनः यदि निर्धनकर्षकान् पीडयन्ति तर्हि तेषां क्षेत्राणि स्वायत्तीकृत्य निर्धनकर्षकाणां कृते वितरति स्म सः ।
तदानीं समाजे अस्पृश्यतादुराचारः अधिकतया आसीत् । तदानीन्तनसमाजः स्वसोदरानेव अस्पृश्याः इति व्याजेन दूरे स्थापयति स्म । शिवराजः तान् सर्वान् प्रेम्णा दृष्टवान्, तेभ्यः स्वसैन्ये स्थानं दत्त्वा, तेषामर्हतामनुसृत्य उन्नतपदवीः अपि दत्तवान् । ते सर्वेऽपि शिवराजविषये अत्यन्तभक्तिश्रद्धादिभि:स्वविहितकार्यम् अनुतिष्ठन्ति स्म । स्वराज्यस्थापनविषये अत्यन्त -क्लिष्टसमस्याः अपि सम्मुखीकृतवान् शिवराजः । अस्मिन् महति कार्ये बहवः आत्मसमर्पणं क्रृतवन्तः । एकधर्मावलम्बिनः हिन्दवः परस्परं ईर्ष्या-द्वेषग्रस्ताः न भवेयुरिति आदर्शं शिवराजः अस्माकं पुरतः स्थापितवान् । सर्वे जनाः विद्यावन्तः भवेयुरिति शिवराजस्य अभिलाषः आसीत् । तस्य पालनस्मये संस्कृतभाषया सर्वोन्नतस्थानं नष्टम् आसीत्। [[पार्शी|पार्शीभाषा]] विशेषप्राचारे आसीत् । पार्शीस्थाने शिवराजः संस्कृतभाषायाः व्याप्तिं कारितवान् ।
तेषु दिनेषु बहवः बलात्कारेण महम्म्दीयधर्मे परिवर्त्यन्ते स्म । तेषां तु पुनः हिन्दुधर्मे परिवर्तने आकाङ्क्षा आसीत् । किन्तु हिन्दुसमाजः एतान् स्वधर्मे पुनरागमनाय न अनुमनुते स्म । शिवराजाय एतत् नारोचत । शुद्धिकार्यक्रमेण तान् पुनः हिन्दुधर्मे आहूतवान् । समुद्रप्रयाणं तेषु दिनेषु निषिद्धम् आसीत् । एतं मूर्खवादं शिवराजः व्यतिरिच्य स्वयं स्मुद्रयुद्धानि क्रुतवान्, नैकासेनामपि निर्मितवान् ।अविनीतिपरेभ्यः जनेभ्यः शिवराजः क्रुध्द्यति स्म । मातृदेशद्रोहपरान् न क्षम्यति स्म । स्वपुत्रमपि दण्डयति स्म सः । शिवराजः धर्ममूर्तिः । बन्धुवर्गीयजनेषु अपि पक्षपातबुद्धिं न प्रदर्शयति स्म ।बुद्धिमतः, दायित्वज्ञानिनः जनान् सदा प्रोत्साहयते स्म सः, तेभ्यः उन्न्तपदवीः अपि कल्पयति स्म । एतस्य फलमासीत् शिवराजस्य राज्ये गुणवतां संख्या प्रवृद्धा । स्वार्थपराणां तद्राज्ये स्थानं नासीत् । एवं शिवराजः सर्वविषयेषु अभ्दुतपरिणामान् साधितवान् ।
शिवराजस्य स्वराज्यनिर्माणविषयिका एषा कथा अस्माकं देहं पुलकितं करोति । एतस्य ग्रन्थस्य पठनेन शिवराजः आदर्शरुपेण अनुसरणीयः पदे पदे सम्भावनीयश्च् । अस्माकं मनस्सु एषा भावना कुतः आयाति ? यतः शिवराजः देशार्थं, धर्मार्थं च अनेककष्टनष्टानि असहत । स्वप्राणानपि न गणितवान्, बहुवारं मृत्युमुखं प्रविष्टोऽपि । अन्तिमक्षणपर्यन्तं देशार्थं, धर्मार्थमेव चिन्तितवान् । ३०० वर्षेभ्यः अनन्तरम् अद्यापि तं क्षणमात्रं स्मरामः चेदपि अस्मासु नूतनोत्तेजनं जायते ।
२,६५६

सम्पादन

"https://sa.wikipedia.org/wiki/विशेषः:MobileDiff/271826" इत्यस्माद् प्रतिप्राप्तम्