"विनायक दामोदर सावरकर" इत्यस्य संस्करणे भेदः

(लघु) Shubha इति प्रयोक्त्रा विनायकदामोदरसावरकरः इत्येतत् विनायक दामोदर सावरकर इत्येतत् प्रति चालि...
No edit summary
पङ्क्तिः ३३:
{{निर्वाचित लेख}}
 
'''विनायकदामोदरसावरकरः''' ईशवीये १९१० वर्षे जूलैजुलै १० दिनाङ्कः। सूर्योदयसमयः । [[फ्रान्सदेशः|फ़्रान्स्-देशे]] मार्सेल्स्-नौकाश्रये मोरिया नाम्नी नौका नौकीलेन स्थापिता ।
तस्यां कोऽपि यान्त्रिकलोपः सञ्जातः । नौकायाः कर्मकराः तस्य लोपस्य निवारणे मग्नाः आसन् । यात्रिकाः सा कदा सम्यग् भविष्यति इति प्रतीक्षायाम् आसन् । सागरः प्रशान्तः आसीत् । यात्रिकाः अपि निश्चिन्ताः आसन् । किन्तु एतस्मिन् व्यवहारे असावधानः कश्चन युवा किमपि गणयन् आसीत् । निश्चिन्ततया अवस्थानं तस्य न अभ्यस्तम् नासीत्। कारणम्...? सः बन्दी आसीत् । तत्रापि [[आङ्ग्लभाषा|आङ्ग्लसर्वकारस्य]] । तस्मिन् राजद्रोहः आरोपितः आसीत्। तस्य चलनवलनं द्वौ आरक्षकौ निर्निमेषं परिशीलयन्तौ आस्ताम् च ।
 
==समुद्रप्लवनम्==
आरक्षकद्वयम् उद्दिश्य"मया बहिः गन्तव्यम्" इति पृष्टवान् सः बन्दी । एकः आरक्षकः तं शौचालयं नीतवान् बन्दी अन्तः गत्वा द्वारं पिहितवान् । बहिः आरक्षकद्वयं परस्परम् अभिमुखं चलन्तौ रक्षन्तौ आस्ताम् । शौचालयद्वारस्य उपरि काचनिर्मितः गवाक्षः असीत् । तस्य गवाक्षस्य द्वारा अन्तःस्थस्य बन्दिनः चलनं द्रष्टुं शक्यते स्म। अन्तर्गतः बन्दी स्वस्य दीर्घप्रावारकम् अपावृत्य तस्य गवाक्षस्य काचं रोधयन् अवलम्बितवान् । एवम् आरक्षकद्वयस्य दृष्टिपथात् सः अपगत: अभवत् । अन्यक्षणे सः शौचालयस्य रन्ध्रद्वारा समुद्रं प्राप्तवान् । ऊर्मिभिः सह युद्ध्यन् कथञ्चित् तीरं प्रति तरन् गतवान् । नौकाश्रयस्य द्वारतः उपरि अभिप्रसर्प्य पलायनं कृतवान् ।
अधिककाले गतेऽपि अन्तर्गतः युवा बहिः नागतवानिति शौचालयस्य बहिः स्थितस्य आरक्षकद्वयस्य सन्देहः जातः । अन्तः किमपि अभवत् इति सन्देहेन नौकायाः उपरि गत्वा दृष्टवन्तौ । तत्र किमस्ति ..? तदैव बन्दी समुद्रे कूर्दित्वा प्लवमानः पलायते । तत्क्षणे आरक्षकद्वयम् उच्चैः आक्रोशत् " बन्दी पलायते, गृह्ण्न्तु" इति
 
==गणेशविनायकौ==
’भगूर्’ [[महाराष्ट्रराज्यम्|महाराष्ट्रस्थे]] नासिकजनपदे एकः कुग्रामः । तत्र दामोदरपन्तसावरकरस्य गृहे ईशवीये १८८३तमे वर्षे मे मासस्य २८तमे दिनाङ्के एकः बालः जातः । तस्य विनायक: इति नाम कृतवन्तः । दामोदरपन्तस्य पूर्वमेव अन्यः पुत्रः आसीत् । तस्य नाम गणेश: ।
गणेशः, विनायकः इति नामद्वयमपि एकस्यैव देवस्य । समानार्थकनामवन्तौ सोदरौ ज्योष्ठौ भूत्वा देशहितकार्ये अपि समानं भागं स्वीकृत्य नामसमानतायाः सार्थकतां कल्पितवन्तः । गृहजनाः गणेशं ’बाबू’ इति विनायकं ’तात्या’ इति च सम्बोधयन्ति स्म ।
 
==विद्याभ्यासः==
विनायकस्य नवमे वर्षे तस्य माता राधाबायी दिवङ्गता । विद्याभ्यासार्थं गणेशविनायकौ [[नाशिकमण्डलम्|नासिकं]] गतवन्तौ । तयोः पिता दामोदरपन्तः कनिष्ठपुत्र्या मेनया, पुत्रेण नारायणेन च सह भगूरग्रामे एव जीवनं यापयति स्म ।
आङ्ग्लजनानां शासनसमयः । विक्टोरियामहाराज्ञ्याः पट्टाभिषेकस्य पञ्चाशद्वर्षसमाप्तिं पुरस्कृत्य १८९७तमे वर्षे भारते स्वर्णोत्सवः आचरणीयः इति आङ्ग्लसर्वकारेण निश्चितम् । तस्मिन् समये महाराष्ट्रे सर्वत्र भयङ्करः प्लेग् व्याधिः सङ्क्रान्तः आसीत् । सर्वत्र जनाः प्लेग् व्याधिग्रस्ता मक्षिका इव मरणं प्राप्नुवन्ति स्म | मृत्योः भीकरं नृत्यं प्रचलति स्म । तादृश्यां दुर्भरबाधाकरपरिस्थितौ आङ्ग्लेयैः महाराज्ञ्याः पट्टाभिषेकोत्सवः सवैभवं करणीयः इति निश्चितम् इति तत्रत्यानां प्रजानां मनसि व्रणे मरीचचूर्णक्षेपणमिव अभवत् ।
देशभक्ताः जनाः एतं विषयं न असहन्त। आङ्ग्लेयानाम् एतस्य दुर्व्यवहारस्य स्वविरोधं निरूपयन्तौ पूनानगरीयौ चापेकरसोदरौ आङ्ग्लाधिकारिद्वयं बध्द्वा विस्फोटनगोलकेन मारितवन्तौ । आङ्ग्लसर्वकारः चापेकरसोदरद्वयं बद्ध्वा कण्ठपाशदण्डेन अहनत् |चापेकरसोदरद्वयस्य एतदात्मार्पणं सावरकरसोदरद्वयम् अत्यधिकम् आकृष्टवत् ।
"https://sa.wikipedia.org/wiki/विनायक_दामोदर_सावरकर" इत्यस्माद् प्रतिप्राप्तम्