"प्रणब मुखर्जि" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २७:
}}
 
प्रणबकुमार् मुखर्जि ({{lang-bn|প্রণব মুখোপাধ্যায়}}/prŋb kjuːmɑr mʉkhərɡiː/; जननम् - १९३५ डिसेम्बर् ११) [[भारतम्|भारतस्य]] [[भारतस्य राष्ट्रपतिः|राष्ट्रपतिरूपेण]] चितः अस्ति । तेन ७२ प्रतिशतं मतानि प्राप्तानि तन्नाम ५.१८ लक्षपरिमितानि मतानि । मुखर्जिः [[भारतीयराष्ट्रियकाङ्ग्रेस्|भारतीय राष्ट्रियकाङ्ग्रेस्पक्षस्य]] ज्येष्ठः नेता आसीत् । राष्ट्रपतिनिर्वाचने भागग्रहणाय २०१२ तमस्य वर्षस्य जुलै २२ तमे दिनाङ्के सः स्वस्य स्थानाय त्यागपत्रम् अयच्छत् । सः जुलैमासस्य २५ तमे दिनाङ्के राष्ट्रपतिपदं समलङ्करोत् ।
 
==कुटुम्बः उद्योगश्च==
मुखर्जिः ब्रिटिश्भारतस्य वङ्गराज्ये मिरटिप्रदेशे जन्म प्राप्तवान् । तस्य पिता कामद किङ्कर मुखर्जि भारतीयराष्ट्रियकाङ्ग्रेस्पक्षस्य सदस्यः आसीत् । भारतीयस्वातन्त्र्यसङ्ग्रामे गृहीतभागेन तेन दशाधिकवर्षाणि यावत् ब्रिटिशकारागृहे जीवनं यापितम् । प्रणबस्य माता राजलक्ष्मी मुखर्जि । तस्य अग्रजा अन्नपूर्णा मुखर्जि ।
प्रणबः सुरि (बिर्भम्) नगरस्थे सूरिविद्यासागरमहाविद्यालये अध्ययनम् अकरोत् । अयं महाविद्यालयः कल्कत्तविश्वविद्यालयव्याप्तौ[[कोलकाता|कल्कत्त]]विश्वविद्यालयव्याप्तौ विद्यते । सः इतिहासं, राजनैतिकविज्ञानं च अधीत्य कलापदवीं प्राप्तवान् । कलकत्ताविश्वविद्यालयतः न्यायशास्त्रे अपि पदवीं प्राप्तवान् । २०११ तमे वर्षे वोल्वर्हाम्प्टन्-विश्वविद्यालः गौरवडाक्टोरेट्पदविप्रदानपूर्वकं तस्य सम्माननम् अकरोत् । २०१२ तमस्य वर्षस्य मार्चमासे अस्सम्विश्वविद्यालयः गौरव-डिलिट्पदव्या तस्य सम्माननम् अकरोत् ।
 
प्रणब् मुखर्जि भारतस्य त्रयोदशः राष्ट्रपतिः अस्ति । सः षष्ट्ठिवर्षेभ्य: राजकीयक्षेत्रे कार्यं कुर्वन् अस्ति । सः अखिलभारतकाङ्ग्रेस्पक्षस्य ज्येष्ठतमः नेता अस्ति । भारतसर्वकारस्य बहुषु विभागेषु मन्त्री पदवीम् अलङ्कृतवान् अस्ति । अपि च बहुषु अवसरेषु काङ्ग्रेस्पक्षस्य समस्यापरिहारक: अस्ति: । १९६९ तमे वर्षे प्रधानमन्त्री-[[इन्दिरा गान्धी|इन्द्रागान्धिवर्याया:]] काले प्रणब् मुखर्जि काङ्ग्रेस्पक्षस्य प्रतिनिधित्वेन राज्यसभायाः निर्वाचने विजयम् प्राप्तवान् । तदनन्तरकाले मुखर्जि इन्द्रायाः विश्वासयुक्तपात्रेषु अन्यतम: अभवत् । १९७३ तमे वर्षे मन्त्रिसभायाम् मन्त्रीपदवीम् अपि प्राप्तवान् । बहुषु विभागेषु मन्त्री अपि भूत्वा प्रथमवारम् निधिमन्त्रित्वेन १९८२-८४ पर्यन्तम् आसीत् । मुखर्जि राज्यसभाया: नेत्रुत्वम् अपि १९८० त: १९८५ पर्यन्तम् वोढवान् आसीत् ।
[[राजीवगान्धिः|राजीवस्य]] काले प्रणबस्य प्राधान्यता न्यूना जाता । इन्द्रायाः मरणानन्तरम् अनुभवहीनस्य राजीवस्य अध: कार्यम् कर्तुम् अनुत्सुख: आसीत् प्रणब् वर्यः । १९८४ तमेषु वर्षेषु कामपि अधिकारयुक्तपदवीमपि न प्राप्तवान् । अत: स: स्वयम् "राष्ट्रीयसमाज्वादि-काङ्ग्रस्” नाम नूतनम् एकम् पक्षम् आरब्धवान् । १९८९ तमे वर्षे पुन: राजीवेन साकम् वार्तालापम् कृत्वा अखिलभारत-काङ्गरेस् पक्षेण सहैव राष्ट्रीयसमाज्वादि काङ्ग्रेस्स् पक्षमपि योजितवान् । यदा [[पी वी नरसिंहराव|पी.वी. नरसिम्हराव:]] प्रधानमन्त्री अभवत् तदा मुखर्जे: राजकीयदशाया: पुनरुत्थानम् अभवत् । सः १९९१ तमे वर्षे प्रणबाय भारतस्य योजना मन्डल्याः नेतृत्वम् कल्पितवान् । अनन्तरकालेषु प्रणब: काङ्रस्पक्षस्य प्रधानसदस्यः भूत्वा [[सोनिया गान्धी|सोनियागान्धि]] वर्यायै(राजीवस्य पत्नी) राजकीयप्रवेशस्य कारणकर्तृषु अन्यतम: अपि आसीत् १९९० तमेषु वर्षेषु । काङ्ग्रस्पक्ष: यु.पी.ए सम्योजनेन शासनाधिकारम् २००४ तमे वर्षे प्राप्तवन्त: । तस्मिन्समये प्रणब: य: तावत् पर्यन्तम् सर्वजन नेता नासीत् स: लोकसभा निर्वाचने विजयम् प्राप्तवान् । तदारभ्य २०१२ तमे वर्षे तस्य पदवी त्यागपर्यन्तम् [[मन्मोहनसिंह्| मन्मोहनसिम्हस्य]] शासने प्रधानमन्त्रे: अनन्तरम् स्थानम् प्रणबस्य एव आसीत् । स: बह्व्य: पदव्य; वोढवान् अस्ति- रक्षणमन्त्री (२००४-०६) , बाह्यसम्बन्ध मन्त्री (२००६-२००९) , निधिमन्त्री (२००९-२०१२) । एतत् विहाय लोकसभायाः प्रतिनिधित्वमपि तेन वोढम् । तदनन्तरम् २०१२ तमे वर्षे यु.पी.ए.पक्षत: एव भारतस्य राष्ट्रपतित्वम् प्राप्तुम् आवेदितवान् । मुखर्जि सरलतया एव पी.ए .सङ्मा्वर्येणसह राष्ट्रपतिभवन प्राप्ति स्पर्धायाम् ७०% मतानि प्राप्य विजयम् प्राप्तवान् ।
==औद्योगिकस्थिति:==
मुखर्जि तस्यौद्यगम् कल्कत्ता नगरस्य पत्राचारविभागे(पोस्टल् ऽ टेलिग्राफ़् ) उप-गणक प्रतिनिधि (डेपुटीअकोन्टन्ट् जेनेरल्) कार्यालये उच्च-विभाग-कार्यदर्शी (अप्पेर् डीविशन् क्लेर्क्) रूपेण आरब्धवान् । १९६३ तमे वर्षे विद्यानगर महविद्यालये राजकीयवैज्ञानम् अध्यापयितुम् आरब्धवान् । अपि च सः “ देशट् दक्”(मातृभूमेः आह्वानम्”) इत्यस्याम् पत्रिकायाम् पत्रिकाकारः अपि आसीत् राजकीयक्षेत्रे प्रवेशात् पूर्वम् ।
"https://sa.wikipedia.org/wiki/प्रणब_मुखर्जि" इत्यस्माद् प्रतिप्राप्तम्