"विनायक दामोदर सावरकर" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५९:
==मित्रमेलायाः आरम्भः==
 
गणेशविनायकौ स्वमित्रैः सह नासिके स्वपाठशालायां ’मित्रमेला’ नाम्नीम् काञ्चित् संस्थाम् आरब्धवन्तौ । व्यायामशालायाः निर्वहणम्, गणेशपूजा-शिवाजीजयन्तीत्यादिसार्वजनिकोत्सवानाम् आयोजनञ्च मित्रमेलायाः कार्यम् । मित्राणि सर्वाणि सम्भूय गातुं योग्यानि गीतानि विनायकः रचयति स्म । छत्रपतिः [[छत्रपतिः शिवाजिः|छत्रपतिः शिवाजि:]], तानाजि:, वासुदेवबलवन्तफडके इत्यादीनां महावीराणां जीवनचरितानि च अत्यन्तस्फूर्तिकरं श्रावयति स्म । एवं युवकेषु, बालेषु च देशभक्तिनिर्माणाय स्फूर्तिकेन्द्रम् अभवत् मित्रमेला ।
ईशवीये १८९९तमे वर्षे विनायकस्य पिता दामोदरपन्तः प्लेगव्याधिकारणतः दिवङ्गतः । तेन कुटुम्बपोषणभारः गणेशे समापतितः । गणेशः कनिष्ठसोदरीं मेनां सोदरं नारायणं च भगूरतः नासिकनगरम् आनीतवान् । किञ्चित्कालानन्तरं गणेशस्य यशोदया सह विवाहोऽभवत् । यशोदागणेशौ विनायकं, नारायणं मेनाञ्च अत्यन्तानुरागेण पालयन्तौ आस्ताम् । विनायकः भ्रार्तृजायां स्वमातरमेव पश्यति स्म ।
स्वानुजस्य विनायकस्य विवेके गणेशस्य अपारः विश्वासः आसीत् । कुटुम्बस्य सर्वमपि भारं स्वयं वहन् विनायकं विद्याविषये प्रोत्साहितवान् सः ।
"https://sa.wikipedia.org/wiki/विनायक_दामोदर_सावरकर" इत्यस्माद् प्रतिप्राप्तम्