"विनायक दामोदर सावरकर" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८७:
१८५७ प्रथमस्वातन्त्र्यसाधनसङ्ग्रामस्य समाप्त्यनन्तरं ५० वत्सराणि समाप्तप्रायाणि । तस्मिन् सन्दर्भे आङ्ग्लराजधान्यां लण्डन् नगर्याम् एकं कार्यक्रमम् आयोजितवन्तः । एतस्य स्वातन्त्र्यसाधनङ्ग्रामस्य रजतोत्सवाय बारिष्टराणां, पण्डित श्यामजी कृष्णवर्मा, मेडम् कामा इत्यादिभ्यः अपि उत्तमः सहकारः लब्धः । प्रथमस्वातन्त्र्यसाधनसङ्ग्रामस्य गौरवचिह्नम् एकं निर्मितवन्तः । तत् चिह्नं भारतीयछात्राः, भारतदेशस्वातन्त्र्यानुरागिणः सर्वे वक्षःस्थले धृत्वा लण्डन् नगरवीथीषु सोत्साहम् अटितवन्तः । एतत् गौरवचिह्नं सगर्वं धृत्वा अटितेषु छात्रेषु मदनलाल् धिङ्ग्रा अन्यतमः । तद् धृत्वा यदा सः विद्यालयप्राङ्ग्णे अटन्नासीत्, तदा केचन आङ्ग्लेयछात्राः तम् परिहसितुं प्रयत्तवन्तः । धिङ्ग्रा कोपेन स्वछुरिकां हस्ते स्वीकृतवान्, तदा ते पलायिताः । अस्मिन् रजतोत्सवकार्ये लण्डन्-नगरे अभिनवभारतस्य कार्यक्रामाणां वेगः अभिवृध्दः । एतस्याः संस्थायाः सभ्याः रहसि विस्फोटनगोलिकाः निर्मान्ति स्म । लक्ष्यवेधने गोलकास्त्रप्रयोगस्य अभ्यासमपि आरब्धवन्तः ।
 
सावरकरेण लिखितं " १८५७ प्रथमस्वातन्त्र्यसङ्ग्रामः " इति ह्स्तलिखितपुस्तकं निगूढं भारतदेशम् आगतम् । तस्य पुस्तकस्य गूढतया मुद्रापण्स्य प्रचारनस्य च भार: गणेशेन स्वीकृत: । एषः विषयः सर्वकारेण ज्ञातः । एतत् पुस्तकं राजद्रोहवर्धकं भावयन् आङ्ग्लसर्वकारः मुद्रणार्थं स्वीकृतं मुद्रणालयं पिहितवान् लिखितपुस्तकमपि सर्वकारः स्वायत्तीकुर्यादिति विचिन्त्य गणेशः गूढतया [[फ्रान्सदेशः|फ्रान्सदेशं]] प्रेषितवान् । भारतीयभाषायां स्थितस्य तस्य पुस्तकस्य फ्रान्सदेशे मुद्रणम् असाध्यम् । अतः तत् आङ्ग्लभाषया अनूद्य मुद्रापणीयम् अभवत् । अनन्तरं तस्य पुस्तकस्य प्रतिकृतयः रहसि भारते
प्रविष्टाः । अल्पदिनेष्वेव एतस्य विषयस्य वार्ता सर्वकारेण ज्ञाता । सार्वकार: झटिति पुस्तकस्य निषेधम् अकरोत् । गणेशसावरकरे राजद्रोहदोषम् आरोप्य अभियोगम् अरचयत् च । न्यायालयः तं दोषिणं निर्णीय आजीवनकारावासं प्राकटयत् ।
 
"https://sa.wikipedia.org/wiki/विनायक_दामोदर_सावरकर" इत्यस्माद् प्रतिप्राप्तम्