"विनायक दामोदर सावरकर" इत्यस्य संस्करणे भेदः

पङ्क्तिः ९६:
बाबाराव(गणेश) सावरकारस्य आजन्मकारावासदण्डं श्रुत्वा लण्डन् नगरे स्थिताः अभिनवभारतसभ्याः पुच्छे मृदितनागाः इव फणां कृतवन्तः । मदनलालधिङ्ग्रा ’ एतस्य योग्यं प्रतीकारं करोमि’ इति शपथं कृतवान् । लण्डन् नगरे स्थितानां भारतीयविप्लवकाराणां कार्यकलापेषु गूढदृष्टिं दत्तवतः आङ्ग्लेयाधिकारिणः नाम कर्जनवैली । तं मदनलालधिड्ग्रा भुशुण्डिना मारितवान् । आरक्षकाः मदनलालं बध्दवन्तः । अनन्तरं तस्मै कण्ठपाशेन मरणदण्डं विहितवन्तः ।
इतो भारतदेशेऽपि स्वातन्त्र्यवीराणां स्थितिः तादृशी एव आसीत् । सावरकरः, तस्य अभिनवभारतसभ्याः च भारतदेशस्थानां क्रान्तिकाराणां कृते निगूढतया आयुधानि प्रेषयन्ति स्म । बाबारावसावरकराय अन्याय्यं दण्डं विहितवतः नासिकजनपदस्य आङ्ग्लाधिकारिणः नाम जाक्सन् । तम् एकस्यां वेश्याशालायाम् अनन्तलक्ष्मणकन्न्हेरेनामा क्रान्तिकारः भुशुण्डिना मारितवान् । अनन्तः आरक्षकैः गृहीतः । तेन सह अन्ये अपि केचन तैः गृहीताः । एतान् क्रान्तिकारिणः आङ्ग्लसर्वकारः अवर्णनीयया रीत्या अपीडयत्।
कर्जन्वैली, जाक्सन् इत्यादीनाम् अनेकेषाम् आङ्ग्लाधिकारिणां हननस्य पृष्ठतः विनायकसावरकरस्य प्रेरणा अस्तीति आङ्ग्लसर्वकारः दॄढं विश्वसिति स्म । मदनलालधिङ्ग्रा स्वीये मरणसन्देशे गर्जितवान्, यत् ’भारतीययुवकानां कठिनकारावासदण्डः विधीयते चेत्, ते मरणशूलेषु आरोप्यन्ते चेदपि, तत्प्रतिक्रियारूपेण आङ्ग्लेयानां रक्तं प्रवाहयितुं वयं निश्चितवन्तः ’इति। एतं सन्देशं सवरकरः एव रचितवान् । एष एव सावरकरस्य सिध्दान्तः इति ज्ञातवन्तः आङ्ग्लेयाः । आङ्ग्लसर्वकारस्यापि तथैव समाभात् । अतः सावरकरं विरुध्द्य न्यायालये अभियोग: रचित: सर्वकारेण ।
 
==साहसपूर्णः प्रयत्नः==
"https://sa.wikipedia.org/wiki/विनायक_दामोदर_सावरकर" इत्यस्माद् प्रतिप्राप्तम्