"गुरु गोविन्द सिंह" इत्यस्य संस्करणे भेदः

पङ्क्तिः ६१:
 
==रणोत्साहः==
गुरुगोविन्दसिंहस्य जीवनसमये देशः महत्यां विपदि आसीत् । विदेशीयानाम् आक्रमणमारभ्य ६०० वर्षाणि अतीतानि । प्रजानाम् उपरि अत्याचारैः कञ्चित्कालं, सङ्घर्षणैः कञ्चित्कालं, मध्ये,मध्ये सज्जनत्वेन च कञ्चित्कालं देशे विदेशीयानां शासनं प्रचलितम् । स्वीयां सर्वां शक्तिं भारतदेशसंस्कृतेः धार्मिकविश्वसानां विनाशायैव उपयुक्तवतां [[औरङ्गजेबः|औरङ्गजेब]]- इत्यादीनां शासनं प्रचलितम् । तादृशस्थितौ तां राक्षसशक्तिं निग्रहीतुं देशप्रजानां पालने पीड्यमानजनानां सङ्घटनं रचितवान् । सामान्यजनानां विचारेषु परिवर्तनस्यैव सः अधिकप्राधान्यं दत्तवान् । आत्मविस्मृतिं दूरीकृत्य तेषु आत्मविश्वासं जनयितुं सः "लक्षेणापि जनैः एको भूत्वा युद्धं कुरु" इति रूपेण उत्साहं जनितवान् ।
अत एव भारतदेशेतिहासे तस्य विशिष्टं स्थानं कल्पितमस्ति ।
 
"https://sa.wikipedia.org/wiki/गुरु_गोविन्द_सिंह" इत्यस्माद् प्रतिप्राप्तम्