"मदनमोहन मालवीय" इत्यस्य संस्करणे भेदः

(लघु) clean up using AWB
No edit summary
पङ्क्तिः २४:
मदनमोहनमालवीयः
एतस्य विश्वस्य भाग्यवशात् एकः महोन्नतः पुरुषः अस्मिन् देशे जातः । स एव '''मदनमोहनमालवीयः''' । श्रीमालवीयः अत्यन्तप्रज्ञावान् । मेधाविनः, प्रतिभावतः तस्य जन्मना न केवलं पितरः देशोऽपि भाग्यशाली अभवत् ।
उत्तरभारते [[झान्सी|झान्सीपट्ट्णस्य]] समीपे मालवा इति प्रदेशः अस्ति । मालवीयस्य पूर्वजाः तत्र आसन् । नाम्नः अन्ते निवासप्रदेशस्य योजनम् एकः सम्प्रदायः । मालवीयस्य पितामहः प्रेमधरः उत्तमां ख्यातिम् आर्जितवान् आसीत् ।
१८५७ तमे वर्षे आङ्ग्लेयान् एतस्मात् देशात् प्रेषयितुं [[झांसी लक्ष्मीबाई|झान्सीराज्ञी लक्ष्मीबाई]],[[नाना साहेब्|नानासाहेबः]], [[तात्याटोपे|तात्याटोपे]] इत्यादयः वीराः अत्यन्तं साहसं प्रदर्श्य युद्धं कृतवन्तः । तेषां प्रयत्नाः सफलाः न जाताः । आङ्ग्लसाम्राज्ये भारतदेशः कश्चन भागः जातः । एतेन भारतीयजीवने महान् परिणामः जातः । धनिनः, मध्यमवर्गीयाः जनाः आङ्ग्लेयान् अनुकुर्वन्ति स्म । वेषभाषासु, जीवनविधाने च एते परिणामाः स्पष्टं दृष्टाः ।
[[आङ्ग्लभाषा|आङ्ग्लभाषाभाषणम्]], आङ्ग्लेयवस्त्रधारणं, तत्पद्धतीनाम् अनुसरणम् अत्यन्तं गौरवास्पदमिति भावयन्तः आसन् जनाः । किन्तु स्वीयपूर्वजानां सम्प्रदायानां, सिद्धान्तानां विषये मालवीयानाम् अत्यन्तगौरवभावना, विश्वासश्च आसीत् । देशे उच्चलतां पाश्चात्यसमुत्तुङ्गतरङ्गाणाम् अभिमुखं गच्छन्तः आसन् ते ।
मदनमोहनस्य पिता व्रजनाथः [[श्रीमद्भागवतपुराणम्|श्रीमद्भागवतं]] (कृष्णलीलाः - कृष्णभक्तानां गाथाः) पठित्वा विवृण्वन् जीवनं यापयति स्म । एतेन एव ज्ञायते ते कियता कष्टेन जीवनं यापयन्ति स्म इति । विश्वासतः प्रार्थयमानान् जनान् भगवान् कदापि न त्यजति इति गाढः विश्वासः तस्यासीत् । एषः निर्धनब्राह्मणः स्वजीवनभाग्यं सर्वं भगवतः हस्ते न्यस्तवान् आसीत् ।
मदनमोहनस्य पितामहः पण्डितः प्रेमधरः स्वर्गस्थः अभवत् । सम्प्रदायानुगुण्येन पितुः अपरकर्माणि पवित्रे गयाक्षेत्रे समापितवान् पण्डितः व्रजनाथः । तदा व्रजनाथं गुरवः उक्त्वन्तः "किमपि प्रार्थयतु, भगवान् ददाति, वयमपि आशिषः दद्मः" इति । हस्तद्वयेन अञ्जलिं बद्धवा प्राङमुखः पण्डितः व्रजनाथः प्रार्थितवान् "भगवान् ! महयम् एकं पुत्रम् अनुगृह्णातु । तत्सदृशः अन्यः न स्यात् न भवेत् च" इति ।
पण्डितस्य व्रजनाथस्य प्रार्थनाः सफलाः । १८६१ संवत्सरे, डिसेम्बर् १५ दिनाङ्के आहियापुरे पण्डितमदनमोहनमालवीयः जातः (आहियापुरम् ग्रामः इदानीं मालवीयनगरम् इति प्रसिद्धम्) । मोहनस्य माता मूनादेवी ।
"https://sa.wikipedia.org/wiki/मदनमोहन_मालवीय" इत्यस्माद् प्रतिप्राप्तम्