"मदनमोहन मालवीय" इत्यस्य संस्करणे भेदः

पङ्क्तिः ४८:
 
==विवाहः==
पञ्चदशवर्षे वयसि कदाचित् मदनमोहनः स्वस्य पितृव्येण सह [[मिर्जापुरम्|मिरजापुरम्]] अगच्छत् । तत्र बहवः पण्डिताः अमिलन् । मेधाविनः स्वयं ज्ञातान् विषयान् अधिकृत्य तत्र भाषणं कृतवन्तः । तेषां भाषणानि श्रुतवतः तस्य बालकस्य विवक्षा उत्पन्ना । द्वित्रवारम् उत्थितश्च । अन्ते अवसरः लब्धः । सः मेधाविनां समूहम् एकवारं विलोक्य सविनयं स्वभाषणम् आरब्धवान् । मृदुमधुरस्वरेण हेतुबद्धेन तस्य संस्कृतभाषणेन, मेधाशक्त्या च ज्येष्ठाः चकिताः अभवन् प्रशंसाः वर्षितवन्तश्च ।
पण्डितनन्दरामः स्वयं मेधावी । सः एव समावेशं निरूढवान् । मदनमोहनस्य रूपं, मेधा, विनयः च तम् आकर्षन् । मुखतः स्वरः न निर्गतः । स्वस्य तृतीयां पुत्रीं कुन्दनादेवीं तस्मै नवयुवकाय दत्त्वा परिणयः करणीयः इति निर्णीतवान् सः ।
१५ वर्षीयस्य मदनमोहनस्य विवाहं कुन्दनादेव्या सह सवैभवं कारितवन्तः ज्येष्ठाः ।
पङ्क्तिः ५७:
पितृपितामहैः अनुसृते एव पथि भागवतस्य व्याख्यानानि लिखित्वा कीर्तिप्रतिष्ठाः प्राप्तव्याः इति मदनमोहनस्य इच्छा आसीत् । एतमेव विषयं मातरं निवेदितवान् । पुत्रस्य इच्छां श्रुत्वा मूनादेवी 'अस्माकं स्थितिं भवान् जानात्येव । भवान् यद् योग्यम् इति भावयति तत् करोतु’ इत्युक्तवती । मातुः हृदयं ज्ञातवान् मदनमोहनः कस्याञ्चित् पाठशालायाम् उपाध्यायरूपेण प्रविष्टः । तत्र तस्य वेतनम् आसीत् चत्वारिंशद् रूप्यकाणि । पाठशालातः आगमनानुपदमेव व्यायामं करोति स्म सः । सङ्गीतसाधनेऽपि अङ्कितः जातः सः । मुरल्याः, सितारावाद्यस्य च वादनं ज्ञातवान् । प्रभातसमये, सायं च व्रजनाथः पुत्रं मीरायाः, सूरदासस्य च भक्तिगीतानि शिक्षयति स्म । अकिञ्चनत्वेऽपि दिनानि आनन्देन यापयति स्म सः ।
१८८१तमे संवत्सरे एफ् ए परीक्षाम् उत्तीर्णः अभवत् मदनमोहनः । मैर् सेंट्रल् कलाशालायां पठितवान् सः । ज्ञानसमुपार्जनापिपासया सः आगरायां बि ए कक्ष्यां प्रविष्टः । कार्यान्तरेषु व्यस्ततायाः कारणतः बि ए परीक्षाम् अनुत्तीर्णः । १८८४तमे वर्षे कलकत्ताकलाशालातः स्नातकः जातः सः स्नातकोत्तरपदवीं साधयितुमैच्छत् । तथापि कुटुम्बं क्लिष्टस्थितौ अस्तीति ज्ञात्वा मदनमोहनः उद्योगं प्राप्य मातापित्रोः साहाय्यं कर्तुं निश्चितवान् ।
 
==बहुमुखप्रतिभावान्==
जन्मतः मदनमोहनः कविः । षोडशवयसि एव सः कवितारनाम् आरब्धवान् । अत्यल्पे एव समये सः उत्तमकविः इति प्रसिद्धिं प्राप्तवान् । तस्य कवितानां संग्रहस्य नाम 'मकरन्दः’ इति, प्रथमा कविता च 'राधिकाराणी’ इति आसीत् ।
"https://sa.wikipedia.org/wiki/मदनमोहन_मालवीय" इत्यस्माद् प्रतिप्राप्तम्