"मदनमोहन मालवीय" इत्यस्य संस्करणे भेदः

पङ्क्तिः ६०:
==बहुमुखप्रतिभावान्==
जन्मतः मदनमोहनः कविः । षोडशवयसि एव सः कवितारनाम् आरब्धवान् । अत्यल्पे एव समये सः उत्तमकविः इति प्रसिद्धिं प्राप्तवान् । तस्य कवितानां संग्रहस्य नाम 'मकरन्दः’ इति, प्रथमा कविता च 'राधिकाराणी’ इति आसीत् ।
भारतराष्ट्रियमहासभायाः द्वितीयसमावेशः [[कोलकाता|कलकत्तायाम्]] अभवत् । प्रख्यातः [[दादाभाई नवरोजि|दादाभाई नवरोजी]] तस्य समावेशस्य अध्यक्षः आसीत् । तस्मिन् महति समावेशे एकः युवकः गुरुदेवस्य आदेशानुसारं वेदिकाम् आगतवान् । सः भाषणम् आरब्धवान् । देशभ्क्त्या पूर्णानि तस्य वचनानि गभीरगङ्गाप्रवाहवत् प्रसरन्ति स्म श्रोतृश्रवणकुहरेषु । श्रोतारः आनन्दसागरे मग्नाः इवासन् । भाषाणं सम्पूर्णं श्रुत्वा परवशाः जाताः ते । महासभायाः संस्थापकः ए ओ ह्यूम् महोदयः 'मदनमोहनमालवीयस्य अद्यतनं भाषणं कदापि न विस्मरणीयम्’ इति उक्तवान् ।
तस्मिन् समये श्रीरामपालसिंहः मालवीयं मिलितवान् । 'हिन्दुस्थान’पत्रिकायाः सम्पादकः सः । स्वपत्रिकायाः सम्पादकत्वदायित्वं स्वीकरोतु इति मालवीयम् अभ्यर्थितवान् । पत्रिकायाः सर्वमपि दायित्वं तस्मै एव दत्तवान् च ।
 
==न्यायवादी==
सामाजिकजीवने असाधारणभारेण पीडितोऽपि १८९२तमे संवत्सरे अलहाबादस्य उन्नतन्यायालये न्यायवादिरूपेण स्थानं प्राप्तवान् मदनमोहनः । अल्पसमये एव सः उत्त्मन्यायवादी इति ख्यातिम् अपि अर्जितवान् । उत्तेजकराणि भाषणानि, अत्यन्तसाधारणाः, सरलाः, विश्लेषणात्मकाः च तस्य वादाः न्यायालये सभासु समावेशेषु च बहून् प्रभावितान् अकुर्वन् । अत्यल्पकाले एव प्रजासु विशिष्टं स्थानं प्राप्तवान् मदनमोहनः । असामान्या मेधासम्पद्, अनर्गला वाक्, सहनशीलता, श्रमं कर्तुं सामर्थ्यं च तं जन्मतः एव प्राप्ताः गुणाः । न्यायवादिरूपेण अधिकं धनार्जनं कृतवान् । स्वजीवने न कदापि अपराधिनाम् अभियोगान् स स्वीकृतवान् । निर्धनानाम्, असहायकानां कृते एव स्वीयं समयं रक्षति स्म सः ।
"https://sa.wikipedia.org/wiki/मदनमोहन_मालवीय" इत्यस्माद् प्रतिप्राप्तम्