"मदनमोहन मालवीय" इत्यस्य संस्करणे भेदः

पङ्क्तिः ६४:
 
==न्यायवादी==
सामाजिकजीवने असाधारणभारेण पीडितोऽपि १८९२तमे संवत्सरे [[इलाहाबाद|अलहाबादस्य]] उन्नतन्यायालये न्यायवादिरूपेण स्थानं प्राप्तवान् मदनमोहनः । अल्पसमये एव सः उत्त्मन्यायवादी इति ख्यातिम् अपि अर्जितवान् । उत्तेजकराणि भाषणानि, अत्यन्तसाधारणाः, सरलाः, विश्लेषणात्मकाः च तस्य वादाः न्यायालये सभासु समावेशेषु च बहून् प्रभावितान् अकुर्वन् । अत्यल्पकाले एव प्रजासु विशिष्टं स्थानं प्राप्तवान् मदनमोहनः । असामान्या मेधासम्पद्, अनर्गला वाक्, सहनशीलता, श्रमं कर्तुं सामर्थ्यं च तं जन्मतः एव प्राप्ताः गुणाः । न्यायवादिरूपेण अधिकं धनार्जनं कृतवान् । स्वजीवने न कदापि अपराधिनाम् अभियोगान् स स्वीकृतवान् । निर्धनानाम्, असहायकानां कृते एव स्वीयं समयं रक्षति स्म सः ।
भारतीयस्वातन्त्र्यसङ्ग्रामोद्यमे [[मोहनदास करमचन्द गान्धी|महात्मागान्धिः]],[[नेताजी सुभाषचन्द्र बोस|सुभाषचन्द्रबोसः]] इत्यादयः इव मान्यः जातः मदन्मोहनमालवीयः । गान्धिमहोदयः यथा राष्ट्रपिता, तथा मालवीयः राष्ट्रस्य अध्यापकः इति गण्यते स्म । मालवीयः इति वंशनाम्नैव तं सम्मानयन्ति स्म जनाः ।
१८५७ तमे वर्षे भारतसर्वकारेण कोलकत्ता, [[मुम्बई|मुम्बई]], चेत्रै नगरेषु विश्वविद्यालयाः स्थापिताः । एते सर्वे आङ्ग्लविश्वविद्यालयसमाः एवेति घोषिताः ।
 
==विश्वविद्यालयस्वप्नः==
आङ्ग्लभाषाभाषणं, तेषां सम्प्रदायानाम् अनुसरणं व्यवहरणं च अत्युन्नतमिति भावयन्ति स्म तदा केचन भारतीयाः । अत्यन्तमेधावी देशभक्तः मालवीयः भारतीयसंस्कृत्याः पूर्ववैभवं, गौरवं च पुनः साधनीयमिति दृढचिन्तनं कृतवान् । सुशिक्षिताः सर्वेऽपि एतस्याः संस्कृत्याः मौल्यम् अवगच्छेयुः इति आशां प्रकटितवान् । काश्यां हिन्दू विश्वविद्यालयः स्थापनीयः इति निश्चितवान् सः ।
"https://sa.wikipedia.org/wiki/मदनमोहन_मालवीय" इत्यस्माद् प्रतिप्राप्तम्