"मदनमोहन मालवीय" इत्यस्य संस्करणे भेदः

पङ्क्तिः ७२:
विश्वविद्यालयस्य स्थापनं सुकरं वा ? एकस्य विद्यालयस्य चालनमेव कष्टकरम् । तथा सति विश्वविद्यालयचालनं कियत्कष्टकार्यम् ? तत्रापि एकेनैव एतत् साहसं करणीयमिति चिन्तितवान् सः । २१ तममहासभा वारणस्यां निरुढा ।
गौरवाध्यक्षस्थानमलङ्कर्तुं गोपालकृष्णगोखले महोदयम् आहूतवन्तः । मालवीयः एतस्मिन् अवसरे काङ्ग्रेस्-पक्षस्य ज्येष्ठैः नायकैः अमिलत् । हिन्दूविश्वविद्यालयस्य स्थापनविषये स्वीयां तीव्राम् इच्छां प्रकटितवान् । तस्य आशयं श्रुत्वा सर्वे तम् अभिनन्दितवन्तः । काङ्ग्रेस्-पक्षस्य प्रमुखः सुरेन्द्रनाथबेनर्जीमहोदयः उत्तमानाम् अध्यापकानां प्राप्तिपर्यन्तं विश्वविद्यालये आङ्ग्लप्राचार्यरूपेण विना वेतनं कार्यं करोमि इति वचनं दत्तवान् ।
काशीहिन्दुविश्वविद्यालयस्य[[काशी|काशी]]हिन्दुविश्वविद्यालयस्य कृते स्थानं प्राप्तुं मालवीयः महान्तं प्रयत्नं कृतवान् । तत् स्थलं काशीमहाराजस्य आसीत् । राजा मालवीयं 'यावत् धनम् आवश्यकं तावद् दातुं शक्नोमि किन्तु तत् स्थलं तु मा पृच्छतु । तेन स्थलेन सह मम अनुबन्धः तादृशः अस्ति’ इत्युक्तवान् । किन्तु भगवतः दयया मकरसङ्क्रान्तेः पर्वदिने मालवीयः उपायनरूपेण तदेव स्थलं राज्ञः द्वारा सम्पादितवान् ।
आर्थिकसमस्या उद्भूता । धनसंग्रहणाय समग्रे देशे पर्यटनं करणीयमिति चिन्तितवान् । प्रत्यहं कथञ्चित् कोशः पूर्णः भवति स्म । अस्मिन्नेव सन्दर्भे सः भाग्यनगरम् (हैदराबाद्) आगतवान् । तस्मिन् काले निजामपदवाच्यः तं प्रदेशं पालयति स्म । हिन्दुविश्वविद्यालयाय धनं दातुं तस्य महम्मदीयमनः नाङ्ग्यकरोत् । तं विषयमेव मालवीयं स्पष्टं सूचितवान् सः । रिक्तहस्तः सन् ततः निर्गन्तुं मालवीयः सुतरां नेच्छति स्म ।
तस्मिन्नेव दिने हिन्दुः कश्चन मृतः । तस्य शवयात्रायाम् अनुयायिनः नाणकानि विकिरन्तः चलन्ति स्म । मालवीयः भूमौ पतितानि तानि नाणकानि चित्वा स्यूते स्थापयन्नासीत् । तस्य कार्यं दृष्ट्वा केचन आश्चर्यमनुभूतवन्तः । ते अपि नाणकानि चित्वा तस्य स्यूते स्थापितवन्तः । स्यूतः नाणकैः पूर्णः । निजामः एतां घटनां ज्ञातवान् । सः लज्जितः जातः । मालवीयाय अधिकं धनं दत्त्वा अभिनन्दितवान् ।
[[हिमालयः|हिमालयतः ]][[कन्याकुमारी|कन्याकुमारिपर्यन्तं]], [[पेशावार|पेशावारतः]], [[ब्रह्मदेशः|ब्रह्मदेश (म्यान्मार्)]] पर्यन्तम् अनेकवारं देशं समग्रं पर्यटितवान् पण्डितमालवीयः । यत्र कुत्रापि गत्वा उदात्ताय स्वाशयाय धनं याचते स्म धनिकान् ।
एकस्मिन् पर्याये [[दरभङ्गा|दरभङ्गायां]] भागवतमधिकृत्य भाषणं कृतवान् मालवीयः । दरभङ्गामहाराजः अन्तिमदिने कार्यक्रमे उपस्थितः आसीत् । मालवीयस्य अद्भुतं भाषणं श्रुत्वा चकितः महाराजः २५ लक्षरूप्यकाणि उपायनरूपेण दत्तवान् । न केवलं तत् स्वीयं शेषजीवनं मालवीयस्य उदात्ताशयसाधनाय समर्पयामि इति प्रतिज्ञातवान् । तस्य वचनं श्रुतवतः मालवीयस्य नेत्रे आनन्दाश्रुणा पूर्णे जाते । उक्तवचनानुसारं दरभङ्गमहाराजः मालवीयेन सह बहुत्र अटितवान् ।
देशस्य चतसृषु दिक्षु पर्यटन् मालवीयः एककोटि चतुस्त्रिंशत् लक्षरूप्यकाणि संगृहीतवान् । भिक्षुकाणाम् अधिपतिरिति बिरुदमपि प्राप्तवान् । कदाचित् 'मालवीयतः धनार्जनोपायः ज्ञातव्यः’ इति गान्धिमहाशयः साश्चर्यम् उक्तवान् ।
 
==काशीहिन्दुविश्वविद्यालयः==
१९१६ फेब्रवरीमासस्य चतुर्थदिनांकः शुभप्रदा वसन्तपञ्चमीतिथिः । वाराणस्यां सर्वत्र उत्सववातावरणं दृश्यते स्म । गङ्गानद्याः तीरे तदानीन्तनः वैसराय्-गवर्नर्-जनरल् हरटिञ्च महाशयः हिन्दुविश्चविद्यालयस्य शिलास्थापनम् अकरोत् । बहवः प्रमुखाः राष्ट्रनायकाः, विविधमतनेतारः च तस्मिन् महोत्सवे भागं गृहीतवन्तः । तस्मिन् कार्यक्रमे भाषमाणः मालवीयः वेदाः, उपनिषदः, भगवद्गीता, महाभारतं, रामायणम् इत्यादीनां पवित्रग्रन्थानां पठनस्य आवश्यकता, भारतीयसंस्कृतेः, संस्कृतभाषायाश्च श्रेष्ठता इत्यादिषु विषयेषु अबोधयत् । तेषां साधनायै एव अयं विश्वविद्यालयः संस्थापितः इति अवदत् । सः एव तस्य जीवनश्वासः जातः ।
"https://sa.wikipedia.org/wiki/मदनमोहन_मालवीय" इत्यस्माद् प्रतिप्राप्तम्