"मदनमोहन मालवीय" इत्यस्य संस्करणे भेदः

पङ्क्तिः ८०:
 
==काशीहिन्दुविश्वविद्यालयः==
१९१६ फेब्रवरीमासस्य चतुर्थदिनांकः शुभप्रदा वसन्तपञ्चमीतिथिः । वाराणस्यां सर्वत्र उत्सववातावरणं दृश्यते स्म । [[भागीरथी|गङ्गानद्याः]] तीरे तदानीन्तनः वैसराय्-गवर्नर्-जनरल् हरटिञ्च महाशयः हिन्दुविश्चविद्यालयस्य शिलास्थापनम् अकरोत् । बहवः प्रमुखाः राष्ट्रनायकाः, विविधमतनेतारः च तस्मिन् महोत्सवे भागं गृहीतवन्तः । तस्मिन् कार्यक्रमे भाषमाणः मालवीयः [[वेदः|वेदाः]], [[उपनिषदः|उपनिषदः]],
[[भगवद्गीता|भगवद्गीता]], [[महाभारतम्|महाभारतं]], [[रामायणम्|रामायणम्]] इत्यादीनां पवित्रग्रन्थानां पठनस्य आवश्यकता, भारतीयसंस्कृतेः, संस्कृतभाषायाश्च श्रेष्ठता इत्यादिषु विषयेषु अबोधयत् । तेषां साधनायै एव अयं विश्वविद्यालयः संस्थापितः इति अवदत् । सः एव तस्य जीवनश्वासः जातः ।
"स्वदेशीयाः निर्धनाः न भवेयुः इत्येतदर्थं प्रयत्नः सर्वेणाऽपि कर्तव्यः । कृषिक्षेत्रमात्रे अभिवृद्धिः सर्वतोमुखाभिवृद्धिः न भवति । आर्थिकाभिवृद्धेः अपेक्षया व्यक्तिविकासः शीलनिर्माणं च अत्यन्तं प्रमु्खम् । सर्वोऽपि देशजनः स्वीयधर्मं रक्षेत् । युवानः हिन्दुधर्मस्य रक्षकाः भवेयुः । ते यदि तम् अंशं विस्मरेयुः तर्हि संस्कारहीनाः भवेयुः । प्राप्ता विद्या व्यर्था भवेत् । धर्मग्लानिः स्म्भवेत् । धर्मस्य ज्ञानार्थं विशालं लक्ष्यम् आवश्यकम् । हिन्दुधर्मं ये सम्यक् जानन्ति तेषां सः धर्मः जीवनमार्गदर्शकः दीपः इव भवति । अद्यतनयुवजनाः अस्माकं संस्कृतिं सम्यग् अवगच्छेयुः" एवम् आसीत् मालवीयस्य विचारसरणिः ।
हिन्दुधर्मेण प्राप्तानाम् जीवनमौलिकांशानां संरक्षणं, तदर्थं योग्यायाः विद्यायाः बोधनमिति लक्ष्यं स्वीकृतं काशीहिन्दुविश्वविद्यालयेन ।
'यूनां कृते विशाललक्ष्यप्रदः हिन्दुविद्यासुगन्धः दातव्यः । तेन सह अन्यधर्माणाम् अवगमनस्य आवश्यकता अपि बोधनीया’ इत्येतस्य मदनमोहनमालवीयस्य सदाशयस्य सचेतनरूपम् एव 'काशीहिन्दुविश्वविद्यालयः’ इत्युक्ते अतिशयोक्तिः न ।
 
==आदर्शपुरुषः==
वैविध्यरूपेण मातृभूमेः सेवां कृतवान् मालवीयः । विद्याविषये कृता सेवा तु तदीया अतुला शाश्वतकीर्तिप्रदा जाता । पत्रिकाविषये तेन कृता सेवा अपि अविस्मरणीया ।
"https://sa.wikipedia.org/wiki/मदनमोहन_मालवीय" इत्यस्माद् प्रतिप्राप्तम्