"मदनमोहन मालवीय" इत्यस्य संस्करणे भेदः

पङ्क्तिः ८९:
वैविध्यरूपेण मातृभूमेः सेवां कृतवान् मालवीयः । विद्याविषये कृता सेवा तु तदीया अतुला शाश्वतकीर्तिप्रदा जाता । पत्रिकाविषये तेन कृता सेवा अपि अविस्मरणीया ।
'पत्रिकायाः सम्पादकत्वस्य निर्वहणे अन्येषां हस्तक्षेपम् अत्यल्पप्रमाणेन अपि न सहे, तत्र मम सम्पूर्णं स्वातन्त्रम् आवश्यकी’ इत्युक्तवान् आसीत् मालवीयः । एतं नियमम् अङ्गीकृत्यैव राजा रामपालसिंहः तस्मै पत्रिकायाः स्वामित्वं समर्पितवान् । तेषु दिनेषु पण्डितप्रतापनारायणः, श्रीबालमुकुन्दगुप्तश्च पत्रिकाप्रकाशने असाधारणौ पुरुषौ । ताभ्यां द्वाभ्यां सह अविभाज्यम् अनुबन्धं रक्षितवान् मालवीयः ।
अनेकासां लघुपत्रिकाणां कृते एतस्य सहकारः आसीत् । देहलीतः मुद्राप्यमाणायाः 'कोपाल’साप्ताहिकपत्रिकायाः प्रकाशने एतस्य साहाय्यम् आसीत् । बाबू [[पुरुषोत्तमदास टण्डन|पुरुषोत्तमदासटाण्डन्]]-महोदयेन चाल्यमानायाः 'अभ्युदय' पत्रिकायाः प्रकाशने च सम्पूर्णसहकारं यच्छति स्म मालवीयः ।
विश्वपत्रिकाप्रकाशकेषु पत्रिकाकाररूपेण अत्यधिकां ख्यातिं प्राप्तवान् मालवीयः । स्वीयं पत्रिकाप्रकाशनकौशलं देशाय समर्पितवान् च ।
भारतीयपत्रिकाप्रकाशनसंस्था एतेनैव कारणेन प्रख्यातिं प्राप्तवती । पत्रिकाकारस्य लक्षणं भवेत् आत्मगौरवं, दृढता, स्वाभिमानः च । उन्नतधर्मं नीतिम् ॠजुवर्तनं च न विस्मरेत् सः इति वदति स्म मालवीयः ।
देहलीस्थां 'दि हिन्दुस्थान् टाइम्स्’ पत्रिकासंस्थां क्रीत्वा कानिचन वर्षाणि तां सम्यक् चालितवान् । कार्यभारस्य कारणतः अनन्तरदिनेषु तां पत्रिकाम् अन्यस्यै संस्थायै दत्तवान् ।
 
==वर्तुलोप्तीठिका सभा==
तेषु दिनेषु भारतदेशः आङ्ग्लजनैः पाल्यते स्म । भारताय स्वतन्त्र्यं दातव्यम् उत न वा इत्येतस्मिन् विषये चिन्तयति स्म आङ्ग्लसर्वकारः । १९३१ तमे वर्षे लण्ड्न्-नगरे द्वितीयवर्तुलोप्तीठिका सभा आयोजिता । तस्यां सभायां भाषणं कर्तुं मालवीयं निश्चिनोत् गान्धिमहोदयः ।
"https://sa.wikipedia.org/wiki/मदनमोहन_मालवीय" इत्यस्माद् प्रतिप्राप्तम्