"मदनमोहन मालवीय" इत्यस्य संस्करणे भेदः

पङ्क्तिः ९५:
 
==वर्तुलोप्तीठिका सभा==
तेषु दिनेषु भारतदेशः आङ्ग्लजनैः पाल्यते स्म । भारताय स्वतन्त्र्यं दातव्यम् उत न वा इत्येतस्मिन् विषये चिन्तयति स्म आङ्ग्लसर्वकारः । १९३१ तमे वर्षे लन्डन्|लण्ड्न्]]-नगरे द्वितीयवर्तुलोप्तीठिका सभा आयोजिता । तस्यां सभायां भाषणं कर्तुं मालवीयं निश्चिनोत् गान्धिमहोदयः ।
वर्तुलोप्तीठिकासभायां मालवीयस्य भाषणम् अविस्मरणीयम् आसीत् । 'इण्डियन् डायरी’ इति स्वीये पुस्तके माण्टेङ्गः मालवीयस्य भाषणं बहुधा प्रशंसितवान् । तेजबहदूरः सप्रू अपि तस्य भाषणम् अभिनन्दितवान् । स्वीयैः प्रज्ञासमेतैः भाषणैः खण्डान्तरेषु अपि राजनीतिज्ञानाम् आदरपात्रम् अभवत् सः । स्वीयदैनन्दिननियमान् विदेशे अपि नोल्लङ्घितवान् श्रीमालवीयः । प्रातः निद्रातः उत्थाय नियमेन व्यायामं करोति स्म सः । स्नानाय भारतदेशीयं सुफेनकमेव उपयुङ्क्ते स्म सः । पूजां कृत्वा फाले तिलकं धरति स्म सः । अनन्तरम् उष्णं दुग्धं पीत्वा श्वेतवस्त्राणि, उष्णीषं च धरति स्म । मध्याह्ने घण्टाद्वयम् आगतैः सह सम्भाषणञ्च करोति स्म ।
मालवीयः मितमेव आहारं स्वीकरोति स्म । भोज्नानन्तरं विश्रान्तिं स्वीकरोति स्म । शय्याप्रर्कोष्ठे तस्य मातापित्रोः तैलवर्णचित्रम् आसीत् । मातापित्रोः, भगवतः च प्रार्थनां कृत्वा एव निद्रां करोति स्म सः । एवं तस्य दिनचर्या आसीत् ।
'वसन्तपञ्चमीम्’ अत्यन्तं शुभदिनं भावयति स्म सः । तस्मिन् दिने बहवः तं मिलन्ति स्म । तस्मिन् एव पर्वणि काशीहिन्दुविश्वविद्यालयस्य स्थापनमभूत् । तस्य भाषणं श्रोतुं सहस्रशः छात्राः, उपाध्यायाः आगच्छन्ति स्म तस्मिन् दिने । सरलभाषायां भारतीयसंस्कृतिं, धर्मम् उद्दिश्य, काशीहिन्दुविश्वविद्यालयस्य लक्ष्यं चोद्दिश्य स्पष्टं विशदयति स्म सः तदा अन्यदाऽपि ।
 
==बहुभाषाकोविदः==
आङ्ग्ल-संस्कृत-हिन्दी-उर्दूभाषासु कोविदः आसीत् मालवीयः । आङ्ग्लभाषया भाषणावसरे अन्यभाषापदानि न कदापि उपयुङ्क्ते स्म । संस्कृतभाषया भाषणसमये तु विद्यानां माता सरस्वती एव तस्य जिह्वायां नृत्यति स्म ।
"https://sa.wikipedia.org/wiki/मदनमोहन_मालवीय" इत्यस्माद् प्रतिप्राप्तम्