"मदनमोहन मालवीय" इत्यस्य संस्करणे भेदः

पङ्क्तिः १०१:
 
==बहुभाषाकोविदः==
आङ्ग्ल-संस्कृत-हिन्दी-उर्दूभाषासु कोविदः आसीत् मालवीयः । आङ्ग्लभाषया भाषणावसरे अन्यभाषापदानि न कदापि उपयुङ्क्ते स्म । संस्कृतभाषया भाषणसमये तु विद्यानां माता [[सरस्वती देवी|सरस्वती]] एव तस्य जिह्वायां नृत्यति स्म ।
भाषणानि इव तस्य लिखाः अपि पठितॄणां हृदयानि हरति स्म । वचनानि मौक्तिकानि लेखनानि रत्नानि इवासन् तस्य ।
 
==क्रान्तिकारी==
मालवीयः यद्यपि प्राचीनसम्प्रदायानुसारी तथापि क्रान्तिकारीमनोभाववान् अपि आसीत् । १९१९ तमे वर्षे एप्रिलमासस्य त्रयोदशदिनाङ्के अमृतसरनगरस्थे जलियन्-वालाबाग् स्थाने अत्यन्तं विषादकरी घटना प्रवृत्ता । सभायां भागिनः निस्सहायाः श्रोतारः विदेशीयानां गोलकास्रैः निहताः । स्त्रियः पुरुषाः बालाः वृद्धाः इति भेदं विना क्षयं गताः शतशः । एतस्य प्रधानकारणम् आसीत् जनरल् डय्यरः । भारतजनता चकिता जाता । सर्वकारीयप्रतिनिधयः सिमलायां समाविष्टाः । समावेशे श्रीमालवीयः अत्यन्तम् उद्वेगभरस्वरेण षड्घण्टां यावत् नरवधमधिकृत्य भाषितवान् । प्रेरणायुतायाः तस्य भाषणस्य कारणतः समाविष्टाः आङ्ग्लेयाः अपि प्रभाविताः ।
"https://sa.wikipedia.org/wiki/मदनमोहन_मालवीय" इत्यस्माद् प्रतिप्राप्तम्