"मीराबाई" इत्यस्य संस्करणे भेदः

(लघु) Shubha इति प्रयोक्त्रा मीराबायी इत्येतत् मीराबाई इत्येतत् प्रति चालितम्
Reverted to revision 272441 by Shubha: विषयरक्षणाय.
पङ्क्तिः १:
{{Infobox Hindu leader
#पुनर्निदेशन [[मीराबाई]]
|name= श्रीकृष्णभक्ता मीराबाई
|image = Mirabai1.jpg|मीराबाई
|caption = ''मीराबाई''
|birth_date=
|birth_place= [[राजस्थानम्]], [[भारतम्]]
|birth_name=
|death_date=
|death_place= [[द्वारकाद्वीपः]], [[गुजरातराज्यम्]], [[भारतम्]]
|guru=
|philosophy= श्रीकृष्णस्य सख्यभावभक्तिः
|honors=
|Literary works =
|quote= " मेरे तो गिरधर गोपाल दूसरो न कोई "
|footnotes=
}}
[[कृष्णः|श्रीकृष्ण]]भक्ता '''मीराबाई''' (१४९५-१५४७) ({{lang-gu|મીરાબાઈ}}, {{lang-en|Mirabai}}) [[कृष्णः|श्रीकृष्णं]] भर्तृरूपेण स्वीकृतवती आसीत् । सा स्वहृद्गतभावान् भजनमाध्यमेन [[कृष्णः|श्रीकृष्णं]] प्रति प्रादर्शयत् । प्रायः तस्याः भजनानि प्रेमभावं निरूपयन्ति । 'मेवाड'राज्यस्य राजमहिषी मीराबाई सुखं, साम्राज्यं च त्यक्त्वा कृष्णगीतं गायन्ती साध्वीरूपं धृत्वा ग्रामं-ग्रामं भ्रमति स्म । तस्याः अधिकानि पद्यानि [[मारवाडीभाषा]]यां, व्रजभाषायां च सन्ति । परन्तु सा [[गुजरातीभाषा]]याम् अपि रचनां कृतवती आसीत् ।
 
== जन्म परिवारश्च ==
 
मीरायाः कालः कः इत्यस्मिन् विषये भिन्नानि मतानि सन्ति । मीरा १४९५ तमे वर्षे [[जोधपुरम्|जोधपुरे]] 'मेडता'ग्रामस्य समीपस्थे 'कुडकी'ग्रामे अजायत इति केषाञ्चन मतम् । तस्याः जनकः रतनसिंहः रावराठोडवंशे उद्भूतः । तस्याः जननी वीरकुवरी आसीत् । यदा मीरा १५-१६ वर्षीया आसीत्, तदा तस्याः विवाहः 'मेवाड'प्रदेशस्य राजपुत्रेण भोजराजेन सह अभवत् । तया ५-६ वर्षपर्यन्तं सुखेन वैवाहिकजीवनं व्यतीतम् । पश्चात् तस्याः पत्युः आकस्मिकमृत्युः अभूत् । पत्युः मृत्योरनन्तरं राजपरिवारेण सह मीरायाः विवादः उद्भूतः । तेन मीरा राजप्रासादं त्यक्तवती ।
 
== जीवनम् ==
 
श्रूयते यत् मीरा भक्तशिरोमणेः जीवगोस्वामिनः दर्शनार्थं [[वृन्दावनम्|वृन्दवनं]] गता आसीत् । गोस्वामी स्त्रीदर्शनं न करोति स्म । अतः सः न्यवेदयत् यत् "अहं स्त्रीदर्शनं परित्यक्तवान् अस्मि" इति । मीरा प्रत्यवदत् -"[[वृन्दावनम्|वृन्दावने]] [[कृष्णः|श्रीकृष्णः]] एव पुरुषः वर्तते" इति । मीरायाः एतत् मार्मिकं वचनं श्रुत्वा जीवगोस्वामी सस्नेहं मीराम् अमिलत् । एतस्याः कथायाः उल्लेखः प्रियदासस्य पद्ये लभ्यते -‘वृन्दावन आई जीव गुसाई जू सो मिले झिली, तिया मुख देखबे का पन लै छुटायो’।
 
मीरायाः ननान्दा 'अजब कुंवरबा' 'पुष्टि'मार्गीयवैष्णवसम्प्रदायम् अङ्गीकृत्य 'ब्रह्मसम्बन्ध'दीक्षां स्वीकृतवती आसीत् । परन्तु मीरा सम्प्रदायादिभ्यः दूरैव आसीत् । मीरा यदा [[वृन्दावनम्|वृन्दावने]] आसीत्, तदा [[चैतन्यमहाप्रभुः|चैतन्यमहाप्रभोः]] शिष्याभ्यां सह तस्याः मतभेदः उद्भूतः आसीत् । ततः सा व्रजभूमिं त्यक्त्वा [[द्वारका|द्वारकां]] प्रति प्रयाणं कृतवती ।
 
मीरायाः सौराष्ट्रगमने बहूनि कारणानि भवेयुः । तत्र आद्यं कारणं [[कृष्णः|श्रीकृष्णः]] [[द्वापरयुगम्|द्वापरयुगे]] [[वृन्दावनम्|व्रजभूमितः]] [[द्वारका|द्वारकां]] प्रति गतः आसीदिति । द्वितीयं तु तस्याः गुरुः रैदासः [[गिरनारपर्वतः|गिरनारपर्वत]]समीपे 'सरसई'ग्रामे निवसति स्म । तृतीयञ्च तस्याः मातृपक्षराठोडवंशस्य [[ओखा]]मण्डले राज्यम् आसीत् इति ।
 
सा [[जुनागढ]]-[[गिरनारपर्वतः|गिरनारपर्वत]]-माधवपुर-[[पोरबन्दर|सुदामापुरी]]-[[सोमनाथः|सोमनाथा]]दि भूत्वा 'आरम्भडा'राज्यं प्राप्तवती । तदा तत्र 'शिवा साङ्गा' नामकस्य वाढेरवंशीयराज्ञः राज्यमासीत् । सोऽपि रणछोडरायभक्तः आसीत् । मीरा अधिकसमयपर्यन्तं तत्रैव निवसितवती । मीरया प्रेरितः 'शिवा साङ्गा' [[द्वारकाद्वीपः|द्वारकाद्वीपे]] द्वारकाधीशमन्दिरं निर्मापितवान् आसीत् । यदा मीरा [[द्वारकाद्वीपः|द्वारकाद्वीपे]] निवसति स्म, तदा तस्याः वयः ६० वर्षाणि आसन् इति केषाञ्चन मतम् । एतस्मिन् मन्दिरे एव मीरा स्वस्य शेषजीवनम् व्यतीतवती ।
==मीरायाः गुरुः==
बहुभिः जनैः मन्यते यत मीरायाः कोऽपि गुरुः न आसीत् इति । परन्तु सा गुरुम् अन्विष्यति स्म । ततः सा अनेकैः सन्यासिभिः मिलितवती । अन्ते ‘रैदासं’ दृष्ट्वा (उत्तरभारते सः ‘सन्तरविदास’ इति नाम्ना प्रख्यातः) तस्याः मनः सन्तुष्टम् । मीरा बहुषु पद्येषु तस्य उल्लेखं कृतवती अस्ति ।
 
== मीरायाः कृतयः ==
मीरा चतुर्णां ग्रन्थानां रचनां कृतवती अस्ति ।
# बरसी का मामरा
# गीतगोविन्द टीका
# रागगोविन्द
# राग सोरठ के पद
=== मेरे तो गिरिधर गोपाल दूसरो न कोई ===
<poem>
मेरे तो गिरिधर गोपाल दूसरो न कोई ।
जाके सिर मोर मुकुट मेरो पति सोई ।
तात मात भ्रात बंधु आपनो न कोई ॥।
छाँड़ि दी कुल की कानि कहा करिहै कोई ।
संतन ढिंग बैठि-बैठि लोक लाज खोई ॥
चुनरी के किये टूक ओढ़ लीन्ही लोई ।
मोती मूँगे उतार बनमाला पोई ॥
अँसुवन जल सींचि सींचि प्रेम बेलि बोई ।
अब तो बेल फैल गई आणँद फल होई ॥
दूध की मथनियाँ बड़े प्रेम से बिलोई ।
माखन जब काढ़ि लियो छाछा पिये कोई ॥
भगत देख राजी हुई जगत देखि रोई ।
दासी "मीरा" लाल गिरिधर तारो अब मोही ॥
 
- मीराबाई
</poem>
 
=== पायो जी म्हें तो राम रतन धन पायो ===
<poem>
 
पायो जी म्हें तो राम रतन धन पायो।
वस्तु अमोलक दी म्हारे सतगुरू, किरपा कर अपनायो॥
जनम-जनम की पूँजी पाई, जग में सभी खोवायो।
खरच न खूटै चोर न लूटै, दिन-दिन बढ़त सवायो॥
सत की नाँव खेवटिया सतगुरू, भवसागर तर आयो।
'मीरा' के प्रभु गिरिधर नागर, हरख-हरख जस पायो॥
 
- मीराबाई
</poem>
 
 
=== पग घूँघरू बाँध मीरा नाची रे ===
<poem>
 
पग घूँघरू बाँध मीरा नाची रे।
मैं तो मेरे नारायण की आपहि हो गई दासी रे।
लोग कहै मीरा भई बावरी न्यात कहै कुलनासी रे॥
विष का प्याला राणाजी भेज्या पीवत मीरा हाँसी रे।
'मीरा' के प्रभु गिरिधर नागर सहज मिले अविनासी रे॥
 
- मीराबाई
</poem>
 
== बाह्यानुबन्धाः ==
 
http://www.sscnet.ucla.edu/southasia/Religions/gurus/Mirabai.html
 
http://www.biographyonline.net/spiritual/mirabai.html
 
[[वर्गः:कृष्णभक्ताः]]
"https://sa.wikipedia.org/wiki/मीराबाई" इत्यस्माद् प्रतिप्राप्तम्