"विकिपीडिया:तन्त्रांशसभा" इत्यस्य संस्करणे भेदः

पङ्क्तिः २४२:
===टिप्पणी===
::मम मत्या एतद्विषये भूयोऽपि चिन्तनम् आवश्यकम् । भवता यत् $ % ^ & * इति चिह्नानाम् आवश्यकता निराकृता, तन्न युक्तमिति मे मतिः । प्रथमं तावन्मया स्पष्टीकर्त्तव्यं यत् अहं स्वयम् एतस्योपकरणस्य प्रयोगं न करोमि । मम तु टङ्कणकार्यं विन्डोज़्-प्रदत्तेन उपकरणेन प्रचलति । <br>
::इदानीं वदामि । एतेषु चिह्नेषु %,* चिह्नानि अतीवोपकारकानीति मन्ये । मम विन्डोज़्-प्रदत्तेऽपि उपकरणे एषा सुविधा विद्यते यत् एतानि चिह्नानि न भवन्ति, तेषां स्थाने च संयुक्तवर्णानि आगच्छन्ति । परन्तु मम सुदीर्घ अनुभवः अस्ति (आदौ एव च मया अनुभूतम्) यत् संयुक्तवर्णानां कृते प्रायेण धारावत् लेखनसमये लघुमार्गस्य (short-cut keys) आवश्यकता न भवति, यतो हि लेखकः, लेखिका वा उच्चारणं मनसि उच्चारयन्निव टङ्कणं करोति । तदा सहज-रीत्या एव हस्तो गच्छति k,s,h,a इति क्रमेण, तथैवान्येभ्यः संयुक्तवर्णेभ्योऽपि । पुनश्च मयाऽपि पूर्वोक्ते ममोपकरणे एषः लघुमार्गः न प्रयुज्यते, यस्मात् तेषां प्रयोगः धारायां बाधेव प्रतीयते मया ।<br>
तथापि यदि तेषां आवश्यकता भवद्भिः प्रतीयते, तर्हि कृपया %, * इत्यादीनां प्रयोगः लघुमार्गार्थे यदि न क्रियते तद् युक्तं स्यादिति मन्ये । यस्मात् सङ्ख्यानां यदा बाहुल्यं बवति तदा % इति चिह्नमेव प्रयुज्यते, न तु प्रतिशतमिति पदम् । * इति चिह्नं च बुलेट्-इत्यस्य अर्थे विकिपीडिया-प्रणाल्यां प्रयोगः भवति । कृपया एतत् सर्वं विचिन्य यथायोग्यं निर्णीयताम् । सदस्यानां सुविधाऽर्थे भवतः सूक्ष्मचिन्तनं च साधुवादार्हः खलु । धन्यवादाः । -[[User:Hemant wikikosh|Hemant wikikosh]] ([[User talk:Hemant wikikosh|चर्चा]]) १४:१६, १९ मई २०१४ (UTC)
<!-- एतत् सर्वदा अधः भवेत् इत्यावश्यकम् । अतः अस्मात् उपरि लेखनं करोतु । -->
"https://sa.wikipedia.org/wiki/विकिपीडिया:तन्त्रांशसभा" इत्यस्माद् प्रतिप्राप्तम्