"विनायक दामोदर सावरकर" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ७६:
==उन्नतविद्याभ्यासः==
अनन्तरं विनायकः न्यायसंहिताम् अध्येतुं [[मुम्बई|मुम्बयीं]] गतवान् । तत्र सः विद्याभ्यासेन सहैव वार्तापत्रिकासु देशभक्तियुतान् लेखान् अपि लिखन् आसीत् ।
[[लन्डन्|लण्डन्]] नगरे ’इण्डियाहाउस्’ इति काचन संस्था आसीत् । सा भारतस्वातन्त्र्यसङ्ग्रामाय प्रोत्साहं यच्छन्ती आसीत् । सा संस्था स्वकार्यकलापेषु योग्यान्, बुध्दिमतः विद्यावतः युवकान् आक्रष्टुं छात्रवृत्तिमपि ददाति स्म । एतेषां छात्रवृत्तीनां सम्बन्धिनी वार्ता पत्रिकासु प्रकटीक्रियते स्म । कदाचित् एतादृशं प्रकटनं दृष्ट्वा विनायकसावरकरः तस्मै अभ्यर्थनं कृतवान् । छात्रवृत्तिं प्राप्तवान् च ।
तदा विनायकः पत्नीं यमुनां तस्याः जन्मगृहं प्रेषयित्वा स्वयम् ईशवीये १९०६ तमे वर्षे आङ्ग्लदेशं प्रयातः ।
 
"https://sa.wikipedia.org/wiki/विनायक_दामोदर_सावरकर" इत्यस्माद् प्रतिप्राप्तम्