"महाभारतम्" इत्यस्य संस्करणे भेदः

पङ्क्तिः ५२:
पाण्डवानाम् अभ्युदयम् असहमानः दुर्योधनः छलेन तेषां राज्यम् अपहर्तुं बहुकृतप्रयत्नोऽपि विफलोऽभवत्। तदा स्वमातुलशकुनिसाहाय्येन घूतक्रीडायां कपटेन पाण्डवान् पराजित्य द्रौपदीञ्च स्वानुजेन दुःशासनेन सभामानाय्य अपमाननं कर्तुं प्रायतत । श्रीकृष्णेन रक्षिता द्रौपदी। पराजिताः पाण्डवाः कृतसमयानुसारं द्वादशवर्षपर्यन्तं वनवासस्य, एकवर्ष-अज्ञातवासस्य च कठिनाम् अवस्थाम् असहन्। ततोऽरण्यात् निवृत्य स्वराज्यम् अयाचन्त । दौत्यार्थं पाण्डवप्रतिनिधिः भूत्वा स्वयं श्रीकृष्णः गतः। परन्तु स्वार्थपरायणः दुर्योधनस्तु - ’केशव ! युद्धं विना सुच्याग्रपरिमितं भूमिमपि न दास्यामि’ इति दृढचित्तः सन् अवदत् ।<br />
 
फलतः कौरव-पाण्डवानां मध्ये भयङ्करं युद्धं सञ्जातम्। कौरवाः पराजिताः, पाण्डवेषु ज्येष्ठः युधिष्ठिरः राजसिंहासनम् आरोहत् । कालक्रमेण अभिमन्योः पुत्रं परीक्षितं हस्तिनापुरस्य अधिपतिनं विधाय सर्वे पाण्डवाः द्रौपदी च हिमालयं प्रति अगच्छन् -तत्रैव कालकवलतां गताश्च।
 
==महाभारतस्यादरः==
"https://sa.wikipedia.org/wiki/महाभारतम्" इत्यस्माद् प्रतिप्राप्तम्