"विनायक दामोदर सावरकर" इत्यस्य संस्करणे भेदः

पङ्क्तिः ८१:
==सावरकरस्य आदर्शनायकः==
माजिनी(१८०४-१८७२) इटलीदेशीयः विख्यातः देशभक्तः । अयं विनायकस्य आदर्शनायकः ।
ईशवीये १९०६तमे विनायकः आङ्ग्लदेशं प्राप्तवान् । तत्र माजिनीसम्बन्धिसाहित्यं सर्वमपि पठितवान् । तस्य जीवनस्य सम्यगध्ययनं कृतवान् । स्वातत्र्यसाधनार्थं भारतीयानां प्रेरणायै, समरोत्साहनिर्माणार्थं च तस्य जीवनचरितम् अत्यन्तशक्तिमत्या, स्फूर्तिप्रदया च भाषया लिखितवान् । तस्य मुद्रणार्थं लिखितप्रतिकृतिं भारतदेशं प्रेषितवान् । तत् पठित्वा [[बाल गङ्गाधर [[तिलक|लोकमान्यतिलकः]] "माजिनीचरितम् अत्यन्तं स्फूर्तिप्रदम्, अस्माकं तात्याभाषा, तल्लेखनशैली च इतोऽपि शक्तिमती । एतत् पुस्तकं युवजनम् स्वातन्त्र्यसाधकं वीरं करिष्यति । एतत् पुस्तकं मुद्रितं भविष्यति चेत् अवश्यम् आङ्ग्लसर्वकारः निषेत्स्यति, लेखकम् अवश्यं दण्डयिष्यति च" इति भवितव्यतामुक्तवान् । तत् अक्षरशः सत्यमभवत् । माजिनीपुस्तकं सर्वकारः न्यषेधत् । विनायकस्य कार्येषु गूढचर्याऽपि आरब्धा ।
 
== प्रथमस्वातन्त्र्यसङ्ग्रामः==
"https://sa.wikipedia.org/wiki/विनायक_दामोदर_सावरकर" इत्यस्माद् प्रतिप्राप्तम्