"विनायक दामोदर सावरकर" इत्यस्य संस्करणे भेदः

पङ्क्तिः १०२:
 
सावरकरः भारतदेशप्रयाणाय व्यवस्थां कृत्वा लण्डन्- नगरस्थं विक्टोरियारेलस्थानकं प्राप्तवान् । ततः भारतदेशः प्रयातव्यः इति तस्य चिन्तनम् । सर्वकारः रेलस्थानके एव तं निरबध्नात् । तस्मिन् राजद्रोहापराधः, आङ्ग्लेयाधिकारिणां वधापराधश्च आरोपितः । तस्मिन् आरोपितानाम् अपराधानां न्यायालये यथाकथञ्चित् परिशीलनं समाप्य दण्डनार्थं तं बन्दिनं कृत्वा भारतं प्रेषणीयः इति अधिकारिणां चिन्तनम् आसीत् । किन्तु, मयि आरोपिताः अपराधाः सर्वेऽपि लण्डन् नगरे एव विचारणीयाः, यतः अहं तदा लण्डन्-नगरे एव आसम् इति सावरकरः अक्तवान् । आङ्ग्लसर्वकारेण तत् न अङीकृतम् । सावरकरं बन्दिनं कृत्वा मोरिया इति नौकया भारतं प्रैषयत् च ।
मोरियानौकायां बन्दीरूपेण भारतं प्रति आगमनसमये एव [[फ्रान्सदेशः|फ्रान्स्]] देशस्थे मार्सेल्स् इति नौकाश्रये नौका कीलिता स्थिता । तदा शौचालयस्य रन्ध्रतः बहिः समुद्रे कूर्दित्वा सावरकरः तरन् पलायितुं प्रयत्नं कृतवान् । शौचालयस्य रन्ध्रतः बहिरागमनसमये तस्य शरीरे अनेकस्थानेषु विदारणेन रक्तं सृतम् । शिरसि अपघाताः अभवन् । रक्तसिक्तशरीरेण समुद्रस्य लवणजले तरन् आसीत् तदा तस्य शरीरे सर्वत्र बाधा । तथापि तां सहमानः एव सः तरन् फ्रान्स् भूभागे पदं निक्षिप्तवान् । पट्टणे प्रवेशार्थं प्रयतमानः नौकाश्रयस्य कुड्यम् आरोहत् । तदा रक्षकनौकायां सिध्दाः आङ्ग्लेयरक्षकाः सावरकरं पुनः बध्दवन्तः ।
फ्रान्स् भूभागे पदं निक्षिपन्तं मां बन्धुम् अधिकारः फ्रान्स् आरक्षकाणाम् अस्ति, न तु आङ्ग्लेयारक्षाणाम् इति सावरकरः गर्जितवान् । किन्तु तस्य वचनानि श्रोतुं न सिध्दाः आसन् आङ्ग्लाधिकारिणः । तं बध्द्वा पूर्वतः अपि अप्रमत्ताः भारतदेशम् आनीतवन्तः । आङ्ग्लरक्षकैः यद्यपि सः पुनर्बध्दः, तथापि सावरकरस्य अद्भुतं साहसमेतत् विश्वेतिहासे अपूर्वयत्नत्वेन परिगणितम् ।
 
"https://sa.wikipedia.org/wiki/विनायक_दामोदर_सावरकर" इत्यस्माद् प्रतिप्राप्तम्