"सागरः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[Image:World ocean map.gif|right|thumb|240px|प्रपञ्चस्य समुद्रप्रदेशस्य मानचित्रम्]]
सागरः भूमौ दृश्यमानः लवणजलेनावृत्तः ७०% भूभागः । भूमेः वातावरणस्योपरि, जलचक्र-अङ्गारचक्र-नैट्रोजन्-चक्रस्योपरि च सागरस्य प्रभावः गणनीयरीत्या भवति । विश्वस्य सागरप्रदेशः प्रमुखतया पञ्चधा विभक्तः दृश्यते । प्रदेशवैशल्यानुगुणं तेषां नामानि अवरोहणक्रमेण एवं विद्यते - पेसिफिक्-अट्लाण्टिक्-हिन्दु-अण्टार्क्टिक्-आर्क्टिक्-सागराः ।
 
अस्मिन् भूग्रहमात्रे एव सागरः (अपारः जलराशिः) विद्यते । भूविस्तारस्य (~३.६ X १०८ कि मी<sup>२</sup>) ७२% भागः लवणजलेन आवृत्तः विद्यते । अयं सागरः प्रमुखसागरत्वेन विभक्तः । भूमेः जलस्य ९७% सागरस्य जलमेव । सागरतज्ञाः वदन्ति यत् विश्वसागरस्य ५% भागमात्रम् अस्माभिः आविष्कृतः विद्यते इति । सागरस्य समग्रः विस्तारः १.३ बिलियन् क्युबिक् कि मी (३१० मिलियन् क्युबिक् मीटर्), सामान्यगभीरता ३,६८२ मीटर्स् (१२, ०८० पादमितम्) । अत्र विद्यमानस्य जलस्य प्रमाणं सामान्यतः १,३४० मिलियन् घनकिलोमीटर्-परिमितम् । भूमेः ०.०२३% भारः अस्य विद्यते । सागरे २,३०,००० ज्ञाताः जीविनः वसन्ति, अज्ञातानां जीविनां सङ्ख्या विंशतिलक्षाधिकं स्यात् इति ऊह्यते ।
 
==भूमेः विश्वसागरः==
===वैश्विकविभागः===
यद्यपि विभिन्नाः सागराः इति निर्दिश्यते तथापि वैश्विके स्तरे ते सर्वे परस्परम् अनुबद्धः लवणजलसमूहः एव यश्च विश्वसागरः इति निर्देष्टुम् अर्हः । अविच्छिन्नजलजालः अयम् इत्येषा परिकल्पना समुद्रविज्ञानस्य मूलभूतांशेषु अन्यतमः । भूखण्डानुगुणं कृतः प्रमुखाः विभागाः विस्तारानुगुणम् अधः दर्शितः विद्यते -
{| class="wikitable"
|-
! स्थानम् !! सागरः !! विवरणम्
|-
| १ || पेसिफिक्-महासागरः || एशिया-ओशेनियाप्रदेशौ अमेरिकातः पृथक्करोति
|-
| २ || अट्लाण्टिक्-महासागरः || अमेरिकां युरेसिया-आफ्रिकातः पृथक्करोतु
|-
| ३ || हिन्दुमहासागरः || आफ्रिका-आस्ट्रेलियाखण्डौ पृथक्करोति
|-
| ४ || दक्षिणमहासागरः || पेसिफिक्-अट्लाण्टिक्-हिन्दुमहासागराणाम् विस्तृतभागत्वेन गण्यमानः अयम् अण्टार्क्टिकां परितः दृश्यते
|-
| ५ || आर्क्टिक्-महासागरः || आर्क्टिक्-प्रदेशं व्याप्य उत्तरामेरिका-युरेशियामपि स्पृशति
|}
==सागरप्रदेशः==
भूछदौ प्रायः ७० प्रतिशतं समुद्रः ३० प्रतिशतं भूमिः च वर्तेते ।
"https://sa.wikipedia.org/wiki/सागरः" इत्यस्माद् प्रतिप्राप्तम्