"विनायक दामोदर सावरकर" इत्यस्य संस्करणे भेदः

पङ्क्तिः १३१:
 
==एकताभावः==
अस्पृश्यता हिन्दुसमाजस्य एकः कलङ्कः । अस्पृश्यता, न्यूनाधिकता इत्यादिभावनाभिः हिन्दुसमाजः भेदम् अभजत । अनेके हिन्दूधर्मः|[[हिन्दुधर्मं]] त्यक्त्वा परधर्मं भजन्ते स्म । अतः अस्पृश्यतां विरुध्द्य समरः करणीयः इति सङ्कल्पितवान् सावरकरः । सत्याग्रहं कृत्वा सः रत्नगिरिस्थे विठलेश्वरदेवालये अस्पृश्यानां प्रवेशं कल्पितवान् । रत्नगिरौ पतितपावनमन्दिरं निर्माय श्रीशङ्कराचार्यैः तस्य प्रारम्भोत्सवं कारितवान् । अस्पृश्यतां विहाय सर्वे हिन्दवः एकत्र मिलित्वा सहभोजनं कर्तुं कार्यक्रमान् आयोजितवान् । विद्यालयेषु छात्राः भेदभावं विस्मृत्य एकत्र उपवेष्टुम् अवकाशं कल्पयन्तु इति उपाध्यायान् प्रार्थयति स्म सः । ’अस्माकं बन्धुः यः अस्पृश्यः कृतः तं दूरीकृत्य शत्रुं न कुर्वन्तु’ इति प्रजानाम् अवगमनानुगुणं विशदीकृत्य बोधयति स्म सः । एवं हिन्दुधर्मं त्यक्त्वा अन्यमतधर्मेषु गतवतः जनान् शुध्दिकार्यक्रमैः पुनः हिन्दुधर्मे आनेतुं प्रयत्नमपि करोति स्म ।
हिन्दुधर्मे स्थितान् अनेकान् दोषभावान् अपाकर्तुं सावरकरः प्रयत्नं कृतवान् । भारतीयभाषासु प्रविष्टानाम् अनेकेषाम् आङ्ग्लपदानां, तेषां प्रयोगाणाञ्च अपाकरणेन भाषाशुध्दिकार्यमपि आरब्धवान् ।
 
"https://sa.wikipedia.org/wiki/विनायक_दामोदर_सावरकर" इत्यस्माद् प्रतिप्राप्तम्