"विनायक दामोदर सावरकर" इत्यस्य संस्करणे भेदः

पङ्क्तिः १४०:
 
==स्वातन्त्र्यवीरसावरकरः==
ईशवीयं १९४७तमं वर्षम् भारतस्य अविस्मरणीयं दिनम्। स्वतन्त्रभारतदेशस्य प्रथमस्वातन्त्र्यदिनोत्सवः सवैभवं सम्पन्नः । भारतराजधान्यां [[देहली|देहल्यां]] समायोजिते महोत्सवे तस्मिन् महानायकः विनायकसावरकरः सगर्वं भागं गृहीतवान् । अत्यन्तावेशेन प्रथमस्वातन्त्र्यसाधनसङ्ग्रामम् अधिकृत्य विवृण्वन् स्वीयभाषणे " भारतमं सर्वदा स्वतन्त्रमेव भवेत्, तदर्थम् आयुधसामग्रीसम्पादनम् अत्यावश्यकम् " इति प्रतिपादितवान् ।
ईशवीयं १९६० तमं वत्सरम् सावरकरस्य जीवने अविस्मरणीयम् । सावरकरः स्वस्मै विहितं आजन्मकारावासदण्डद्वयं यदि अन्वभविष्यत्, तर्हि तस्य अस्मिन् १९६०तमे वर्षे एव विमुक्तिः अभविष्यत् । अतः सावरकरस्य अभिमानिनः एतस्मिन् १९६०तमे वत्सरे डिसेम्बरमासस्य २४ दिनाङ्के ’मृत्युञ्जयदिनम्’ आचरितवन्तः । तेन साधितान् विजयान् पुरस्कृत्य विनायकसावरकरम् वैभवपुरस्सरं सम्मानितवन्तः । अण्डमाने वीरसावरकरः बन्दिरूपेण यत्र स्थापितः, तस्मिन प्रकोष्ठे तस्य ज्ञापनाय भारतसर्वकारेण एकं फलकं प्रतिष्ठापितम् । तत् प्रकोष्ठं जातीयस्मारकचिह्न्म् इति प्रकटितम् ।
ईशवीये १९६४तमे वर्षे महाराष्ट्रसर्वकारः, भारतसर्वकारश्च तस्मै ’ अप्रतिहतस्वातन्त्र्यवीरः’ इति बिरुदं प्रदाय सत्कृतवन्तौ ।
"https://sa.wikipedia.org/wiki/विनायक_दामोदर_सावरकर" इत्यस्माद् प्रतिप्राप्तम्