"एम् एस् स्वामिनाथन्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४:
 
अयम् एम्. एस्. स्वामिनाथन् १९५२ तमे वर्षे [[इङ्ग्लेण्ड्]]देशस्य "केम्ब्रिड्ज"–विश्वविद्यालयतः "डाक्टरेट्” पदवीं प्राप्नोत् । तदनन्तरं वर्षं यावत् [[अमेरिका]]देशस्य विस्कान्सिस्–विश्वविद्यालये संशोधनम् अकरोत् । १९५४ तमे वर्षे पुनः [[भारतम्|भारतदेशं]] प्रत्यागत्य कट्क्–संशोधनसंस्थायां [[तण्डुलाः|तण्डुल]]वंशस्य अभिवृद्धेः विधानानां विषये अध्ययनम् अकरोत् । तदनन्तरं २० वर्षाणि यावत् भारतीयकृषिसंशोधनसंस्थायाम् (इण्डियन् अग्रिकल्चरल् रिसर्च् इन्स्टिट्यूट्) बहूनाम् [[आहारः|आहार]]धान्यानां विषये संशोधनम् अकरोत् । ५० तमे दशके यदा भारतदेशः आहारसमस्यां सम्मुखीकरोति स्म तदा अमेरिकादेशस्य [[नोबेल् प्रशस्तिः|"नोबेल्”–पुरस्कारं]] प्राप्तवतः कृषिविज्ञानिनः नार्मल् बोग्लारस्य मार्गदर्शने "मेक्सिकन् ड्वार्फ" नामकस्य [[गोधूमः|गोधूम]]वंशस्य भारतस्य वातावरणस्य अनुगुणम् अभिवृद्धिं कृतवान् । दशकाभ्यन्तरे एव गोधूमस्य वर्धनं द्विगुणितं जातम् । अधिकस्य फलोत्पत्तेः गोध्मस्य, तण्डुलस्य, शणस्य, [[आलुकम्|आलुकस्य]] च मिश्रवंशस्य अभिवृद्धिम् अपि अकरोत् । तस्मात् कारणात् एव अयम् एम्. एस्. स्वामिनाथन् "हरितक्रान्तेः” प्रवर्तकः इति प्रसिद्धः अभवत् ।
 
"https://sa.wikipedia.org/wiki/एम्_एस्_स्वामिनाथन्" इत्यस्माद् प्रतिप्राप्तम्