"इन्दौरमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{Infobox settlement
| name = इन्दौरमण्डलम्
| native_name = Indore District
| other_name =
| settlement_type = इन्दौर जिला
| image_skyline = rajwada.jpg
| image_alt = इन्दौरमण्डलम्
| image_caption = '''इन्दौरमण्डलस्य नयनाभिरामदृश्यम्'''
| established_title = <!-- Established -->
| subdivision_type = देशः
| subdivision_name = {{flag|India}}
| subdivision_type1 = राज्यम्
| subdivision_name1 = [[मध्यप्रदेशः]]
| subdivision_type2 = उपमण्डलानि
| subdivision_name2 = [[इन्दौर]], देपलपुर, महु, सांवेर, हतोड
| subdivision_type3 = विस्तारः
| subdivision_name3 = ३,८९८ च. कि. मी.
| subdivision_type4 = जनसङ्ख्या (२०११)
| subdivision_name4 = ३२,७६,६९७
| timezone1 = भारतीयमानसमयः (IST)
| utc_offset1 = +५:३०
| blank_name_sec2 = लिङ्गानुपातः
| blank_info_sec2 = पु.-५०%, स्त्री.-४९%
| blank2_name = साक्षरता
| blank2_info = ८०.८७%
| blank3_name = भाषाः
| blank3_info = [[हिन्दी]], [[आङ्ग्लभाषा|आङ्ग्लं]] च
| website = http://indore.nic.in/
| footnotes =
}}
 
'''इन्दौरमण्डलम्''' ({{lang-hi|इंदौर जिला}}, {{lang-en|Indore district}}) इत्येतत् [[भारतम्|भारतस्य]] मध्यभागे स्थितस्य [[मध्यप्रदेशराज्यम्|मध्यप्रदेशराज्यस्य]] इन्दौरविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति [[इन्दौर]] इति नगरम् ।
 
== भौगोलिकम् ==
इन्दौरमण्डलस्य विस्तारः ३,८९८ चतुरस्रकिलोमीटर्मितः अस्ति । [[मध्यप्रदेशराज्यम्|मध्यप्रदेशराज्यस्य]] पश्चिमभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे [[देवासमण्डलम्|देवासमण्डलं]], पश्चिमे [[धारमण्डलम्]], उत्तरे [[उज्जैनमण्डलम्|उज्जैनमण्डलं]], दक्षिणे [[खरगौनमण्डलम्]] अस्ति । अस्मिन् मण्डले [[चम्बलनदी]], [[क्षिप्रानदी]] च प्रवहति ।
 
== जनसङ्ख्या ==
२०११ जनगणनानुगुणम् इन्दौरमण्डलस्य जनसङ्ख्या ३२,७६,६९७ अस्ति । अत्र १६,९९,६२७ पुरुषाः, १५,७७,०७० महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ८४१ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ८४१ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ३२.८८% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९२८ अस्ति । अत्र साक्षरता ८०.८७% अस्ति ।
 
=== उपमण्डलानि ===
अस्मिन् मण्डले पञ्च उपमण्डलानि सन्ति । तानि- १ [[इन्दौर]], देपलपुर, महु, सांवेर, हतोड ।
 
=== कृषिः वाणिज्यं च ===
अस्मिन् मण्डले खाद्यसामग्रीणाम् उद्योगाः अत्यधिकाः प्रचलन्ति । अस्मिन् मण्डले वस्त्राणां यन्त्रागाराः अपि बहवः सन्ति । अस्मिन् मण्डले उत्तमाः शैक्षणिकसंस्थाः अपि सन्ति । अतः [[भारत]]स्य अन्यप्रदेशेभ्यः, विदेशात् च विद्यार्थिनः पठितुं तत्र गच्छन्ति । तेन कारणेन इदं मण्डलं प्रगतिशीलम् अस्ति ।
 
== वीक्षणीयस्थलानि ==
 
===खजराना गणेशमन्दिरम्===
बहवः श्रद्धालवः [[इन्दौर]]-नगरवासिनः तथा समीपस्थनगरजनाः तत्र दर्शनार्थं गच्छन्ति । अस्य मन्दिरस्य निर्माणम् अहिल्याबाई होल्कर इत्यनया कारितम् । इयं मराठाराज्ञी आसीत् । इदं स्थलं [[हिन्दु]]जनानां कृते महत्वपूर्णमस्ति ।
 
===गुरुद्वारा===
[[इन्दौर]]-नगरं प्राक्तनादेव [[सिक्ख]]धर्मेण सह संलग्नम् अस्ति । अस्मिन् नगरे एकं प्रसिद्धं गुरुद्वारा अस्ति । [[गुरुनानकः|गुरुनानक]] ई. १५६७ तमे वर्षे तत्र गतः आसीत् ।
 
===अन्नपूर्णामन्दिरम्===
अन्नपूर्णामन्दिरं बहुसुन्दरं तथा पुरातनम् अस्ति । [[इन्दौर]]-नगरे इदं मन्दिरं स्थितमस्ति । अस्मिन् मन्दिरे अन्नपूर्णामातुः सुन्दरप्रतिमा अस्ति । इदं तीर्थयात्राकेन्द्रमस्ति । तत्र न केवलं भक्ताः गच्छन्ति अपि तु पर्यटकाः अपि गत्वा मन्दिरस्य अवलोकनं कुर्वन्ति ।
 
===बडा गणपति===
अस्मिन् मन्दिरे गणेशस्य विशालप्रतिमा अस्ति । तेन कारणेन इदं प्रख्यातमस्ति । अस्य मन्दिरस्य निर्माणम् ई. १८७५ तमे वर्षे ’श्रीदधीच’ इत्यनेन कारितम् । अस्याः प्रतिमायाः उच्चता २५ फीट अस्ति ।
 
== बाह्यसम्पर्कतन्तुः ==
http://indore.nic.in/ <br>
http://www.bharatbrand.com/english/mp/districts/Indore/Indore.html <br>
http://www.census2011.co.in/census/district/306-indore.html
 
[[वर्गः:मध्यप्रदेशस्य मण्डलानि]]
"https://sa.wikipedia.org/wiki/इन्दौरमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्