"छिन्दवाडामण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{Infobox settlement
| name = छिन्दवाडामण्डलम्
| native_name = Chhindwara District
| other_name =
| settlement_type = छिन्दवाडा जिला
| image_skyline = छिन्दवाडामण्डलम्.jpg
| image_alt = छिन्दवाडामण्डलम्
| image_caption = '''छिन्दवाडामण्डलस्य नयनाभिरामदृश्यम्'''
| established_title = <!-- Established -->
| subdivision_type = देशः
| subdivision_name = {{flag|India}}
| subdivision_type1 = राज्यम्
| subdivision_name1 = [[मध्यप्रदेशः]]
| subdivision_type2 = उपमण्डलानि
| subdivision_name2 = [[छिन्दवाडा]], तामिया, परासिया, अमरवाडा, चौराई, उमरेठ, जमई, मोह्खेड, बिछुआ, सौंसर, पाण्ढुर्ना
| subdivision_type3 = विस्तारः
| subdivision_name3 = ११,८१५ च. कि. मी.
| subdivision_type4 = जनसङ्ख्या (२०११)
| subdivision_name4 = २०,९०,९२२
| timezone1 = भारतीयमानसमयः (IST)
| utc_offset1 = +५:३०
| blank_name_sec2 = लिङ्गानुपातः
| blank_info_sec2 = पु.-५०%, स्त्री.-४८.५%
| blank2_name = साक्षरता
| blank2_info = ७१.१६%
| blank3_name = भाषाः
| blank3_info = [[हिन्दी]], [[आङ्ग्लभाषा|आङ्ग्लं]] च
| website = http://chhindwara.nic.in/
| footnotes =
}}
 
'''छिन्दवाडामण्डलम्''' ({{lang-hi|छिन्दवाडा जिला}}, {{lang-en|Chhindwara district}}) इत्येतत् [[भारतम्|भारतस्य]] मध्यभागे स्थितस्य [[मध्यप्रदेशराज्यम्|मध्यप्रदेशराज्यस्य]] जबलपुरविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति [[छिन्दवाडा]] इति नगरम् ।
 
== भौगोलिकम् ==
छिन्दवाडामण्डलस्य विस्तारः ११,८१५ चतुरस्रकिलोमीटर्मितः अस्ति । [[मध्यप्रदेशराज्यम्|मध्यप्रदेशराज्यस्य]] दक्षिणभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे [[सिवनीमण्डलम्|सिवनीमण्डलं]], पश्चिमे [[नरसिंहपुरमण्डलम्]], उत्तरे [[बैतूलमण्डलम्|बैतूलमण्डलं]], दक्षिणे [[महाराष्ट्रराज्यम्]] अस्ति ।
 
==जनसङ्ख्या ==
२०११ जनगणनानुगुणं छिन्दवाडामण्डलस्य जनसङ्ख्या २०,९०,९२२ अस्ति । अत्र १०,६४,४६८ पुरुषाः, १०,२६,४५४ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १७७ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १७७ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १३.०७% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९६४ अस्ति । अत्र साक्षरता ७१.१६% अस्ति ।
 
== उपमण्डलानि ==
अस्मिन् मण्डले एकादश उपमण्डलानि सन्ति । तानि- [[छिन्दवाडा]], तामिया, परासिया, अमरवाडा, चौराई, उमरेठ, जमई, मोहखेड, बिछुआ, सौंसर, पाण्ढुर्ना ।
 
==वीक्षणीयस्थलानि==
 
===पातालकोट===
पातालकोट तामिया-उपमण्डले स्थितमस्ति । अस्य स्थलस्य भौगोलिकं दार्शनिकं च वातावरणं सुन्दरम् अस्ति । अत्र १२००-१५०० फीट परिमितः गर्तः अस्ति । अतः अस्य स्थलस्य नाम पातालकोट अस्ति । उच्यते यत् अत्रैव राज्ञा मेघनाथेन भगवतः शिवस्य पूजा कृता । भगवतः शिवस्य कृपया राजा मेघनाथः पाताललोकम् अगच्छत् । जनाः वदन्ति यत् १८-१९ शताब्द्याम् अत्र राजशासनम् आसीत् । अस्मात् नगरात् पचमढीपर्यन्तं एकः सुरङ्गमार्गः आसीत् ।
अस्मिन् मण्डले छोटा महादेव गुफा, देवगढ-दुर्गः, कुकडीखापा एवं लिलाही जलप्रपातः, आदिवासी सङ्ग्रहालयः इत्यादीनि प्रमुखानि वीक्षणीयस्थलानि सन्ति ।
 
==बाह्यसम्पर्कतन्तुः==
http://chhindwara.nic.in/ <br>
http://www.census2011.co.in/census/district/322-chhindwara.html
 
[[वर्गः:मध्यप्रदेशस्य मण्डलानि]]
"https://sa.wikipedia.org/wiki/छिन्दवाडामण्डलम्" इत्यस्माद् प्रतिप्राप्तम्