"बैतूलमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{Infobox settlement
| name = बैतूलमण्डलम्
| native_name = Betul District
| other_name =
| settlement_type = बैतूल जिला
| image_skyline = बैतूलमण्डलम्1.jpg
| image_alt = बैतूलमण्डलम्
| image_caption = '''बैतूलमण्डलस्य नयनाभिरामदृश्यम्'''
| established_title = <!-- Established -->
| subdivision_type = देशः
| subdivision_name = {{flag|India}}
| subdivision_type1 = राज्यम्
| subdivision_name1 = [[मध्यप्रदेशः]]
| subdivision_type2 = उपमण्डलानि
| subdivision_name2 = [[बैतूल]], चिचोली, शाहपुर, घोडा डोङ्गरी, अमला, मुलताई, भैसदेही, अठनेर
| subdivision_type3 = विस्तारः
| subdivision_name3 = १०,०४३ च. कि. मी.
| subdivision_type4 = जनसङ्ख्या (२०११)
| subdivision_name4 = १५,७५,३६२
| timezone1 = भारतीयमानसमयः (IST)
| utc_offset1 = +५:३०
| blank_name_sec2 = लिङ्गानुपातः
| blank_info_sec2 = पु.-५०%, स्त्री.-४८.५%
| blank2_name = साक्षरता
| blank2_info = ६८.९०%
| blank3_name = भाषाः
| blank3_info = [[हिन्दी]], [[आङ्ग्लभाषा|आङ्ग्लं]] च
| website = http://betul.nic.in/
| footnotes =
}}
 
'''बैतूलमण्डलम्''' ({{lang-hi|बैतूल जिला}}, {{lang-en|Betul district}}) इत्येतत् [[भारतम्|भारतस्य]] मध्यभागे स्थितस्य [[मध्यप्रदेशराज्यम्|मध्यप्रदेशराज्यस्य]] नर्मदापुरविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति [[बैतूल]] इति नगरम् ।
 
==भौगोलिकम् ==
बैतूलमण्डलस्य विस्तारः १०,०४३ चतुरस्रकिलोमीटर्मितः अस्ति । [[मध्यप्रदेशराज्यम्|मध्यप्रदेशराज्यस्य]] दक्षिणभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे [[छिन्दवाडामण्डलम्|छिन्दवाडामण्डलं]], पश्चिमे [[हरदामण्डलम्]], उत्तरे [[होशङ्गाबादमण्डलम्|होशङ्गाबादमण्डलं]], दक्षिणे [[महाराष्ट्रराज्यम्]] अस्ति । अस्मिन् मण्डले [[तापीनदी]] प्रवहति ।
 
== जनसङ्ख्या ==
२०११ जनगणनानुगुणं बैतूलमण्डलस्य जनसङ्ख्या १५,७५,३६२ अस्ति । अत्र ७,९९,२३६ पुरुषाः, ७,७६,१२६ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १५७ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १५७ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १२.९२% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९७१ अस्ति । अत्र साक्षरता ६८.९०% अस्ति ।
 
== उपमण्डलानि ==
अस्मिन् मण्डले अष्ट उपमण्डलानि सन्ति । तानि- [[बैतूल]] , चिचोली, शाहपुर, घोडा डोङ्गरी, अमला, मुलताई, भैसदेही, अठनेर ।
 
==वीक्षणीयस्थलानि==
 
===मुलताई-नगरम्===
मुलताई-नगरं [[तापीनदी|तापीनद्याः]] उद्गमस्थलम् अस्ति । तापीनदी [[सूर्यः|सूर्यस्य]] पुत्री अस्ति । बहवः जनाः दर्शनार्थं तत्र गच्छन्ति । [[स्कन्दपुराणम्|स्कन्दपुराणे]] लिखितम् अस्ति यद् तापीनदी सूर्यपुत्री, [[शनि]][[यम]]योः भगिनी च अस्ति । अतः ये जनाः शनेः पीडिताः सन्ति ते तत्र गत्वा मुक्तिं प्राप्नुवन्ति । [[तापीनदी]] [[मध्यप्रदेश]]स्य द्वितीया प्रमुखा नदी अस्ति । [[तापीनदी]] अरबसागरे खम्बातगर्ते पतति ।
 
===बालाजीपुर-नगरम्===
बालाजीपुर-नगरे भगवतः बालाजी-देवस्य विशालमन्दिरम् अस्ति । इदं मन्दिरं [[बैतूल]]-नगरात् ७ कि. मी. दूरे अस्ति । बहवः श्रद्धालवः तत्र दर्शनार्थं गच्छन्ति । मन्दिरेऽस्मिन् [[राम]]जीवनसम्बन्धीनि प्रदर्शनानि सन्ति । तत्र वैष्णोदेव्याः मन्दिरमपि अस्ति । अस्मिन् मन्दिरे एका गुहा अस्ति । कृत्रिमजलप्रपातः अपि मन्दिरेऽस्मिन् अस्ति ।
 
==बाह्यसम्पर्कतन्तुः==
http://betul.nic.in/ <br>
http://www.census2011.co.in/census/district/314-betul.html
 
[[वर्गः:मध्यप्रदेशस्य मण्डलानि]]
"https://sa.wikipedia.org/wiki/बैतूलमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्