"सर्वपल्ली राधाकृष्णन्" इत्यस्य संस्करणे भेदः

पङ्क्तिः ३४:
 
==वृत्तिजीवनम्==
वेल्लूरुमध्ये वसनावसरे षोडशवर्षीयः युवा सः शिवकामम्मानामिकां कन्याम् ऊढ्वान् । [[१९०९]] तमे वत्सरे मद्रास्नगरे विद्यमानायां प्रेसिडेन्सी-कलाशालायां साहाय्यकोपन्यासकः सन् अभीप्सितां वृत्तिम् आरभत । तेन [[संस्कृतम्|संस्‍कृतभाषायाः]] [[हिन्दीभाषा|हिन्‍दीभाषायाः]] च अध्‍ययनं कृतम्‌ । [[भारतम्|भारतस्‍य]] प्राचीनासु भाषासु तस्य अभिरुचिः आसीत्‌ । भारतस्य [[हिन्दूधर्मः|सनातनहिन्दूधर्मस्य]] सारं, [[वेदः|वेदो]][[उपनिषदः|पनिषदः]], जैनतत्त्वज्ञानम्, [[आदिशङ्कराचार्यः|शङ्कर]] -[[रामानुजाचार्यः|रामानुज]]-[[मध्वाचार्यः|मध्व]]-प्लेटो-प्लाटिनेस्-कान्त्-ब्र्याड्ले इति अनेकेषां महनीयानां तत्त्वं गाढतया अधीतवान् सः । सतताध्ययनेन कठिनपरिश्रमेण च क्रमशः सोपानानि आरोहन् अग्रे सरन् [[१९१८]] तमे वर्षे [[मैसूरुविश्वविद्यालयः|मैसूरुविश्वविद्यालयस्य]] तत्त्वज्ञानविभागस्य उपन्यासकत्वेन चितः अभवत् ।<ref>{{cite book | url=http://books.google.nl/books?id=imPXMrFj_-wC&dq=radhakrishnan+vivekananda&hl=nl&source=gbs_navlinks_s | title=Radhakrishnan: His Life and Ideas | publisher=SUNY Press | authorlink=Murty, K. Satchidananda; Vohra, Ashok | year=(1990)}}</ref> [[१९३१]] तमे वर्षे आन्ध्रविश्वविद्यालयस्य उपकुलपतित्वेन चितः राधाकृष्णन् पञ्चवर्षाणि यावत् स्वसेवावधौ आत्मानम् उत्तमप्रगतिनिष्ठः इति निरूपयन् तस्य विश्वविद्यालयस्य परिवर्तने प्रधानपात्रम् अवहत्। [[१९३९]] तमे वर्षे बनारस्-विश्वविद्यालयस्य कुलपतित्वेन चितः अभवत् । तत्रापि स्वानुभवस्य प्राबल्येन विश्वविद्यालयस्य सर्वविधाभिवृद्धौ परिश्रमं कृतवन्तं राधाकृष्णन्-महाभागं सर्वकारः [[१९४८]] तमे वर्षे विश्वविद्यालयशिक्षणायोगस्य मुख्यस्थरूपेण नियुक्तिम् अकरोत् । [[१९४९]] तमे वर्षे सोवियत्-रशिया-देशस्य राजदूतत्त्वेन नियुक्तः रधाकृष्णन् साल्टिन् सदृशमेधाविभिः समं स्वव्यक्तित्वम् अभ्यवर्धयत् ।
 
==राजनैतिकक्षेत्रे प्रवेशः==
"https://sa.wikipedia.org/wiki/सर्वपल्ली_राधाकृष्णन्" इत्यस्माद् प्रतिप्राप्तम्