"धर्मानन्द दामोदर कोसम्बी" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{Infobox person
'''धर्मानन्ददामोदरकोसम्बी (धम्मानन्द-दामोदर-कोसम्बी)'''
| name = धर्मानन्द दामोदर कोसम्बी
| image = धर्मानंद दामोदर कोसंबी.jpg
| image_size = 175px
| caption =
| birth_date = October 9, 1876
| birth_place = सङ्खवालग्रामः, गोवा
| death_date = June 24, 1947
| death_place = सेवाग्राम
| occupation = बौद्धपण्डितः, पालीभाषाविद्
| spouse =
}}'''धर्मानन्ददामोदरकोसम्बी (धम्मानन्द-दामोदर-कोसम्बी)'''
 
 
भारतीयसाहित्यजगति आचार्यस्य धम्मानन्द-दामोदर-कोसम्बीमहोदयस्य नाम अतीव विख्यातं वर्तते। धम्मानन्दकोसम्बी 09 अक्टूबर, 1876 तमे वर्षे गोवाप्रान्तस्य संखवालग्रामे ब्राह्मणपरिवारे जनिमलभत। बाल्ये परिवारजनैः तस्य नाम ‘धर्म’ (धम्म) इति व्यपस्थापितम्। ग्रामे शिक्षाध्ययनस्य समुचिता व्यवस्था नासीत्। पुनः तस्य पिता दामोदरशेनाॅयोऽपि साधनसम्पन्नो नासीत्। कथ×िचदपि सः मराठीं संस्कृतं च अपठत्। कदाचित् नारिकेलवृक्षेषु सि×चनकर्मणः अवकाशं प्राप्य तत्रौव नारिकेलोपवने उपविश्य सः बालबोधनाम्नि मासिकपत्रो भगवतो बुद्धस्य चरितमपठत्। भगवतो बुद्धस्य चरित्रं शिक्षाश्च पठित्वा अत्यन्तं प्रभावितः सः बौद्धधर्मदर्शनयोः गभीरं ज्ञानं सम्पादयितुं सर्वं परित्यज्य गृहत्यागस्य निश्चयमकरोत्। एतदन्तरा 16वर्षवयसि एव तस्य विवाहो जातः आसीत्।
Line २० ⟶ ३२:
 
ततः सः चतुर्थवारमपि अमेरिकां प्राप्तः। अमेरिकातः प्रतिनिवत्र्य काश्याम् उषित्वा सः ‘हिन्दी संस्वृफत आणि अहिंसा’ इति मराठीग्रन्थं प्रणीतवान्। ग्रन्थे{स्मिन् सः भारतीयेतिहास-संस्वृफतयोः विषये निर्भीकतया स्पष्टतया च स्वीयाध्ययनस्य सारम् उपस्थापयत्। ग्रन्थे{स्मिन् सः स्वीयाध्ययनस्य मौलिकसाहित्यस्य च प्रमाणपुरस्सरं नैकान् विचारान् प्रास्तौत् किन्तु पारम्परिकाः विद्वांसः एतेषां निर्णयानां वृफते तस्य गर्हणां वृफतवन्तः। ग्रन्थस्थनिर्णयाः कालान्तरेण अतीव विवादास्पदाः अपि स×जाताः, किन्तु तेन एतस्य विषये न काचित् चिन्ता वृफता। काशीतः बम्बयीमागत्य सः श्रमिकेषु उषित्वा बहुजनविहारस्य स्थापनामकरोत्। तदनु बम्बईतः सः सारनाथं गतवान्, तत्रा सः आचार्येण जगदीसकस्सपेन सह मिलित्वा ग्रन्थ-सम्पादनकर्म अकरोत्।
[[File:D D KAUSHAMBI.jpg|300px|left|thumb|धम्मानन्द दामोदर कोसम्बी]]
 
जैनधर्मस्य 23तमस्य तीर्थघड्ढरस्य पाश्र्वनाथस्य चातुर्यामधर्मेण प्रभावितः सः तस्मिन् विषये क×चन ग्रन्थमपि विरचयत्। पाश्र्वनाथस्य चिन्तनेन प्रभावितः सः मनुते स्म यत् ‘शरीरस्य क्षीणतां यावत् मृत्योः प्रतीक्षा न करणीया, नेदं शोभनम्। यावत् शरीरस्य उपयोगिता वर्तते, तावदेव तस्य उपयोगो भवेत्। यदा शरीरेण विशेषसेवाया सम्भावना न भवेत्, तदा मनुष्येण भोजनं परित्यज्य शरीरत्यागः करणीयः इति।’ पाश्र्वनाथस्य अनया जीवनदृष्ट्या प्रभावितः आचार्यधम्मानन्दकोसम्बी शरीरत्यागार्थं प्रायोपवेशनम् ;उपवासम्द्ध आरभत। महात्मगान्धिना वृत्तान्तमिदं यदा ज्ञातं, सः तथा न आचरितुं धम्मानन्दमहोदयाय न्यवेदयत्। आचार्यधम्मानन्दः महात्मनो गान्धिनः आज्ञां शिरोधारिणीमकरोत्, किन्तु दुर्भाग्यवशात् अधुना तस्य पूर्ववत् सहजा जिजीविषा नाभूत्। ततः सः काश्यां वासम् अकरोत्, ततश्च बम्बईम् अगच्छत्। अन्ततोगत्वा सः गान्धिनः सेवाग्रामाश्रमे उषितवान्। तत्रौव 05 जून, 1947 मिते अवधौ तस्य परिनिर्वाणो जातः।
 
"https://sa.wikipedia.org/wiki/धर्मानन्द_दामोदर_कोसम्बी" इत्यस्माद् प्रतिप्राप्तम्